SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Jain Educati पुत्रीं रुदतीं वीक्ष्य सागरदत्तस्तत्रैत्य पुत्रीं प्रति प्राह - पूर्वकृतकर्मणः कोऽपि न छुट्यते । यतः" सूर्योऽपि भ्राम्यति व्योम्नि, गुणी भिक्षामटाट्यते । मूर्खोऽपि सम्पदं भुते, विपाकात् पूर्वकर्मणाम् ॥ १ ॥ आरोहति गिरिशिखरं समुद्रमुल्लंघ्य याति पातालम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ! ॥ २ ॥” ततः सुकुमारिके ! प्राक्कर्मच्छित्त्यै दानं देहि । तपः कुरु । शान्तात्मा त्वं तिष्ठ । ततः सा सुकुमारिका सन्तोषं कृत्वा | जैनधर्मं कुरुते स्म । तस्या गृहे एकदा साध्व्यो विहृत्यर्थं समागमन्। तया शुद्धान्नपानैर्भावतः प्रतिलाभिताः साध्व्यः । तासां साध्वीनां पार्श्वे सुकुमारिका दीक्षां जग्राह । सा सुकुमारिका पूर्वार्जितनिबिडकर्मच्छिदे दुष्करं तपः कर्तुं लग्ना । कदाप्येषा सुकुमारिका प्रवर्तिनीं प्रणम्य प्राह-जनरिक्ते वने गत्वा, रवौ दत्तेक्षणा स्फुटम् । एकाग्रमानसा षष्ठाष्टमादिसत्तपः परा ॥ १ ॥ आतापनामहं कर्तुं वाञ्छामि साम्प्रतं किल । पूर्वसंसारसम्बन्धि, कर्म बहस्ति मे दृढम् ॥ २ ॥ प्रवर्तिनी जगौ वत्से !, स्वच्छे आतापना मनाक् । युज्यते बहिरुद्याने, कर्तुं साध्व्या कदापि न ॥ ३ ॥ सुकुमारिका जगौ - यद्यपि बहिरुद्याने आतापना कर्तुं साध्व्या न युज्यते, तथाप्यहं बहिरुद्याने कर्मच्छेदायातापनां करिष्ये । आदेशं देहि । बलादादेशं प्राप्यातापनां लातुं सुकुमारिका बहिरुद्याने गता For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy