SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कथा। ॥३३५॥ ॥ श्रीभरते. धूर्जटिः ॥ २ ॥ तस्मादिमां प्रियां सद्य, आद्रियस्व मनोरमाम् । मातापित्रोर्वचः सम्यक्, क्रियते हितमिच्छुना दौपदीश्वरवृत्ती २ विभागे ॥३॥सागरस्ततः ताताग्रे पाह-प्रविशामि ज्वलत्यग्नौ, मज्जामि जलधौ पुनः। न पुनर्गेहिनीमेना, श्रयेऽहं दुःखदायिनीम् ॥१॥ अस्याः पल्या वपुःस्पर्शोऽङ्गारतुल्योऽस्ति निर्भरम् । तेनास्या अन्तिके स्थातुं, शक्यते न मया मनाक् ॥ २॥ एतच्छ्रुत्वा सागरदत्तः पुत्रिकायाः पार्थे समेत्यावग्-सागरो मनसाऽपि त्वां, न ध्यायति । सुते! मनाक् । वार्ता तिष्ठतु दूरे तु, ततोऽन्यं रमणं वृणु ॥ १॥ वयं वरं कुलीनं च, विनीतं हितकारकम् ।। त्वत्कृते आनयिष्यामि, दुःखं कार्य त्वयाऽत्र न ॥२॥ ततः सागरदत्तेन द्वित्रा वरा आनीताः ये स्वपुत्र्याः पाणि ग्रहणार्थं ते सर्वे तां सुप्तां मुक्त्वा गताः । ततः सागरदत्तेन रङ्क एको भिक्षार्थ मार्गयन् तत्र खगृहे आनीतः। || तं रत कर्पूरवासिताम्बुप्रक्षालिताङ्गं नानाविधभूषणभूषितं कृत्वा खां पुत्रीं तस्मै दत्ता सागरदत्तेन । सोऽपि al रङ्कस्तां सुकुमारिकामङ्गारतुल्यशरीरां ज्ञात्वा दध्यौ-किमङ्गारशकटीयं स्त्री ? राक्षसीयं वा ?। एवंविधां तां ॥ ३३५॥ प्रज्ञात्वा सोऽपि रङ्कः सुकुमारिकां त्यक्त्वा गतः। पुनर्जग्राह खर्परं रङ्कः । पृष्टः श्रेष्ठिना-भो महाभाग ! || किं त्वया मदीया पुत्री त्यक्ता ? । रङ्कोऽवक्-अग्निप्रवेशो वर्यः। न पुनरस्यास्तव पुत्र्याः स्पर्शः। ततः पूर्ववत्तां| Jain Educatan di For Private & Personal Use Only Awainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy