________________
॥ श्रीभरतेश्वरवृत्ती १२ विभागे
॥ ३३४ ॥
Jain Education In
निलयं ययौ भिक्षायै । तया नागश्रिया यतिद्विष्टया तस्मै मुनये तत् कटुतुम्बीफलं ज्ञात्वा बहु विश्राणितम् । धर्मरुचिर्मुनिर्गुरूणां पार्श्वे समेत्य तत् कटुतुम्बीफलं बहुद्रव्यसंस्कारितं दर्शयामास । गुरवस्तं तद् दृष्ट्वा प्रोचुःकटुतुम्बीफलमिदं भूरिप्राणिप्राणापहारकं विद्यते । तदिदं कटुतुम्बीफलं क्वापि निरवद्ये स्थण्डिले परिष्ठापय | यत्नतः । गुरूपदेशात्तत्फलं धर्मरुचिस्त्यक्तुं बहिरुद्याने गतः । कथंचिदेकस्मिन् बिन्दौ भुवि पतिते बह्वीः सहस्रमिताः पिपीलिका मृता दृष्ट्वा धर्मरुचिर्दध्यौ - यदैतत् कटुतुम्बीफलं परिष्ठाप्यते तदा बहवो जीवा मरिष्यन्ति । तस्मादहमेतद्भक्षयामि । एवं विमृश्य स्वयमेव धर्मरुचिर्भुङ्के स्म । स यतिः शुद्धं संयममाराध्य पञ्चपरमेष्ठिध्यानपरो मृत्वा सर्वार्थसिद्धिविमाने ययौ । तदा धर्मरुचेर्बहिर्गतस्य बहूवीं वेलां ज्ञात्वा तस्य साधोर्विलोकनार्थं मुनयः | प्रेषिता गुरुभिः । ततस्ते यतयस्तं साधुं मृतं दृष्ट्वा तस्योपकरणं गुरुपार्श्वे आनिन्युः । सूरयस्तस्य साधोः सर्वार्थसिद्धिगमनं ज्ञात्वा साधूनां पार्श्वे जगुः = धर्मरुचेर्यतेर्भाग्यवतो जीवो यतनया मृत्वा सर्वार्थसिद्धिविमाने ययौ । नागश्रीरकृतालोचना क्रमान्मृता षष्ठे नरके ययौ । ततो मत्स्योऽभृत् । ततः सप्तमे नरके ययौ । ततोऽपि मीनस्त - तोऽपि नरके गता । एवं सप्तवारनरकगमनं मत्स्यभवोद्भवनं चाभूत्तस्याः । एवं बहून् भवान् भ्रान्त्वा गिरिनदी
For Private & Personal Use Only
द्रौपदी
कथा ।
॥ ३३४ ॥
nelibrary.org