SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Bio-Asiपापा Augaan IELDEST YEAUDIOy BUOD on er तदा राधावेधः साधितः कथ्यते । एवंविधो राधावेधो न केनापि भूपेन साधितः । ततोऽर्जुनेन राधावेधः साधितः। ततो द्रौपदी यावदर्जुनस्य कण्ठकन्दले वरमालां चिक्षेप तावत् परेषां चतुर्णा युधिष्ठिरभीमनकुलसहदेवानां कण्ठे पपात भूयो भूयः । द्रुपदो भूपो जगौ-किं करिष्यते ?, माला तु पञ्चानामपि कण्ठे पपात ।। तदाऽकस्मात्तत्र चारणश्रमणो महात्माऽऽगात् । ततः सर्वे भूपास्तं नन्तुं ययुः। तत्र धर्मोपदेशं श्रुत्वा द्रुपदो राजा पप्रच्छ-भगवन् ! अनया पुत्र्याऽर्जुनकण्ठे क्षिप्ता सती वरमाला कथमन्येषां चतुर्णां कण्ठे पपात ?। अग्रतः किं | IN करिष्यते ? । ततो यतिः पूर्वभवकृतं कर्म अस्या द्रौपद्या यथा समागात्तथा प्राह-पूर्वं चम्पायां पुर्यों सोमदेव-| सोमभूतिसोमदत्ताहास्त्रयो भ्रातरो द्विजा वसन्ति स्म । तेषां क्रमात्तिस्रो नागश्रीरतिभूतश्रीयज्ञश्रीनाम्न्यः प्रिया आसन् । त्रयाणामपि प्रियाभिः स्वस्ववारके भोजनं कुटुम्बार्थ निष्पाद्यते । अन्येयुः खवारकदिने नागश्रीर्वयां | रसवतीं वरव्यञ्जनादिपेशलां कुर्वाणा वयं तुम्बफलं रन्धयामास। ज्ञानतः कटुतुम्बीफलं ज्ञात्वा नागश्रीर्दथ्यौ- बहुद्रव्यव्ययोऽत्र लग्नः, तेन मया कथं त्यक्ष्यते ? । क्वापि भाजने तत्फलं क्षिप्त्वा नागश्रीरन्यया रसवत्या सर्व | MIlकुटुम्बं भोजयामास । इतश्च श्रीधर्मघोषसूरयस्तत्राययुः। तेषां शिष्यो धर्मरुचिर्यतिर्मासक्षपणपारणे नागश्री-|
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy