________________
Jain Education
| तदा तव मृतिर्न भवति । ततो वसुदेवदेवकीभ्यां कंसवचः प्रतिपन्नम् । जातान् जातान् गर्भान् कंसेन गृहीत्वा | शिलायामाच्छोटिताः छन्नम् । तदाऽन्तराले हरिणेगमेषी देवो भद्दिलपुरे नागश्रेष्ठिनः प्रियायाः सुलसायाः सुतान् | मृतान् कंसगृहे वसुदेवपुत्रस्थाने मुञ्चति स्म । तांश्च वसुदेवपुत्रान् षट् नागश्रेष्ठिगृहे मुमोच । तेषां नामानि नाम्नाऽनीकयशोऽनंगसेनावजितसेनकः । मथितारिर्देवयशा, शत्रुसेनश्च ते त्वमी ॥ १ ॥ अथ देवक्याः सप्तमे गर्भे उत्पन्ने सा स्वप्नानि सिंहार्काग्निगजध्वजसरोविमानानि सप्त ददर्श । ततः क्रमात् सप्तमे गर्भे समुत्पन्ने देवक्योक्तं | पत्युः पुरः - मयैकः पुत्रो न लालितः । अधुना यो भविष्यति स गृहे स्थाप्यते पाल्यते च मया । वसुदेवो जगौ - | प्रतिज्ञाभङ्गो भवत्येवं । ततः पत्न्योक्तम् - उपायेन पाल्यते । ततो वसुदेवेन गोकुले नन्दस्य पत्ल्या यशोदाया गर्भः कंसायार्पितः । स्वपुत्रश्च यशोदायाः पालनायार्पितः । ततो देवकी नवनवोत्सवमिषं कृत्वा पुत्रविलोकनाय याति । ते उत्सवा अद्यापि लोके प्रथिताः सन्ति । इत्यादि सर्वं श्रीनेमिनाथचरित्रादवगन्तव्यम् । अन्येद्युः श्रीनेमिनाथपार्श्वे धर्मं श्रुत्वा सम्यक्त्वमूलद्वादशवतं धर्ममङ्गीचकार । श्रीजिनधर्मं शुद्धं पालयित्वा सच्छीलशालिनी देवकी स्वर्गं जगाम । ततयुत्वा मर्त्यभवं प्राप्य कर्मक्षयान् मुक्तिं यास्यति । इति देवकीकथा समाप्ता ॥ २८ ॥
For Private & Personal Use Only
jainelibrary.org