SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ देवकीकथा ॥३३२॥ ॥श्रीभरते. चकार । तस्य पुत्री देवकी समजनि । क्रमावर्धमाना चतुःषष्टिकलाकुशलाऽजनि । देवको राजा वसुदेवं शौर्यश्वरवृत्ती २विभागे वीर्यविक्रमादिशालिनं वीक्ष्य स्वपुत्री दातुकामोऽभूत् । महामहोत्सवपूर्व देवको राजा वसुदेवाय वपुत्रीं ददौ । विवाहादनन्तरं दशगोकुलनायकं गोकोटियुतं नन्दं वसुदेवाय देवको ददौ । तस्मिन् विवाहमहोत्सवे जायमाने कंसानुजन्मा पूर्वोपात्तव्रतोऽतिमुक्तकनामा मुनिः पारणार्थी तत्रागात् । तदा सा कंसप्रिया जीवयशा मदपानमत्ता नृत्यं कुर्वती अतिमुक्तकमागतं दृष्ट्वा कण्ठे विलग्ना मुनिं प्रति प्राह-भो देवर ! वरं जातमद्य । यत एवंविधेऽवसरे त्वमायातः। एहि उद्यमं कुरु । आवां नृत्यावः । मुञ्च पात्रादिकमुपकरणम् । एवंविधोऽवसरः पुनः पुनर्न लभ्यते । तां भ्रातृजायां तथाविधमदोन्मत्तां वीक्ष्यातिमुक्तकः प्राह-याऽधुना वसुदेवेन परिणीता तस्याः कुक्षिसमुत्पन्नेन बालेन तव पतिपितरौ हनिष्यते। इति मुनिवचः श्रुत्वा जीवयशा सद्यो गलितमदाऽभशावत् । कंसाय तवृत्तान्तः प्रोक्तः पत्न्या रहसि । ततः कंसो वसुदेवयुतो मथुरायामागात् । ततः कंसो वसुदेवेन सह प्रीतिं कुर्वाणोऽन्यदा जगौ-अद्य ममैकेन देवेनेत्युक्तम्-तव मृतिर्भविष्यति शीघ्रं सप्ताष्टवर्षमध्ये। तदा मयोक्तं। कथंचिन् मम मृतिष्टलति नवा । ततो देवेनोक्तम्-यदि त्वं वसुदेवपल्या देवक्याः सप्तगर्भान् खगृहे पालयसि ॥ ३३ ॥ an Educa For Private Personal Use Only Smainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy