SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३३९ ॥ Jain Education शीलं शुद्धतरं सम्यगाराधयन्निरन्तरम् । जनौघो लभते शर्म, शिवा श्राद्धीव हेलया ॥ १ ॥ तथाहि - उज्जयिन्यां प्रद्योतनो भूपो न्यायाध्वना पृथ्वीं पालयामास । एकदा राजा सभायामुपविष्टो यावत् तावत् कोऽपि दूतस्तत्राभ्येत्य प्राञ्जलिर्भूपं प्रणनाम । राजा पप्रच्छ - कस्त्वं ? किमर्थमागाः १ । स दूतो जगौ - विशालायां पुरि चेटको राजा राज्यं कुरुते । तस्य शिवाहा कुमारी देवकुमारीतुल्याऽस्ति । चतुःषष्टिकलाकुशलां तां पुत्रीं चेटकभूपस्तुभ्यं दातुकामोऽस्ति । यदि रोचते तदा तां त्वमेव परिणय | नो चेदन्यराज्ञे तेन राज्ञा खा पुत्री दास्यते । प्रद्योतनो जगौ - चेटको भूपो यत् कथयति तत् प्रमाणमेव । ततश्चेटकेन भूपेन महोत्सवपुरस्सरं शिवा पुत्री प्रद्योतनाय व्यतारि । सा शिवा राज्ञी अन्येद्युः श्रीवीरपार्श्वे धर्मोपदेशं श्रुत्वा धर्ममङ्गीचकार । शीलात् केनापि सुरेण चाल्यमाना सा महासती न चलिता । तस्मिन् पुरे सदा प्रदीपनं लगति । ततोऽशेषं पुरं ज्वलति । तदाऽनेके उपचाराः कृताः । परं प्रदीपनं न प्रशाम्यति । अन्यदा छलेन तत्रानीतो बुद्धिनिधा| नमभयकुमारः । राज्ञा पृष्टं - कथमिदं प्रदीपनं शाम्यति ? । अभयेनोक्तं- यदि शीलवती नारी स्वयमत्राभ्येत्य नीरेण सर्वेषां गृहाणामुपरि नीरप्रक्षेपं करोति तदा प्रदीपनं सद्यः प्रशाम्यति । ततो बहूवीभिर्नारीभिर्जलप्रक्षेपणं कृतं । For Private & Personal Use Only शिवादेवी कथा । ॥ ३३९ ॥ nelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy