SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ यत् । मद्रकोऽथ भूपो मद्रकी नन्दिनीं पाण्डुभूपाय च ददौ । इतो देशेशस्य सूबलस्य राज्ञः सुता गान्धारीप्रमुखा बभूवुः । गान्धारी धृतराष्ट्राय ददौ राजा। कुन्ती स्वप्ने सुराचलं क्षीराब्धि भास्करं चन्द्रं श्रियं चालोकय-11 निशि । धर्मे चातीव सादराऽभूत् । कुन्ती सुलग्ने सुदिने पुत्रमसूत । जन्मोत्सवं सूनोः कृत्वा राज्ञा धर्मपुत्रो युधिIN||ष्ठिर इति नाम ददे । गान्धारी दुर्योधनप्रमुखपुत्राणां शतमसूत । कुन्ती पुनर्वायुदेवसूचितं भीममसूत । सूर्यदेलावसूचितमर्जुनम् । माद्री नकुलसहदेवौ सुतावसूत । कुन्ती नासिक्यपुरे पुत्रपार्थात् चन्द्रप्रभस्वामिनः प्रासादं चन्द्ररत्नमयबिम्बयुतं कारयामास । पाण्डुः स्वपुत्रं युधिष्ठिरं राज्येऽभिषिच्य व्रतं गृहीत्वा स्वर्गं गतः । युधिष्ठिरो मात्रा सह विस्तरात् श्रीशत्रुञ्जये यात्रां कृत्वोद्धारं चकार । तत्र श्रीनेमीश्वरपार्श्वे कुन्ती पुत्रयुता जिनधर्म प्रपद्य शुद्धं पालयामास । पाण्डवानां राज्यगमनप्राप्त्यादिवरूपं विस्तराद्वक्तव्यम् । पाण्डवाः पञ्चापि वपुत्रान् | राज्ये निवेश्य गुरुपार्श्वे मातृपत्नीयुता दीक्षां जगृहः । क्रमाद्गुरुपार्श्वे तीव्र तपस्तन्वानाः श्रीशत्रुञ्जये। घोरतरतपःपराः पञ्चापि पाण्डवाः कुन्तीयुताः सर्वकर्मवियुक्ता मुक्तिं ययुः । द्रौपदी तु पञ्चमकल्पं ययौ ॥ इति कुन्तीकथा समाप्ता ॥ २५ ॥ भरते. ५६ Jnin Education in de For Private Personal use only library.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy