________________
मूर्तिः । सोऽप्याचख्यौ-शौर्यपुरान्धकवृष्णिजाता कुन्तीनाम्नी स्त्री । चतुःषष्टिकलादक्षा, तारुण्यतरुमञ्जरी । सदृग्वरैकदारिद्याच्चिन्ताब्धौ पितरं न्यधात् ॥ १॥ तस्या रूपमिदं मया फलके लिखितमस्ति ।तं फलकं गृहीत्वा । तस्मै बहु धनं वितीर्य च स्वगृहे ययौ। चित्रे तां बालां दर्श दर्श राजा तन्मयोऽभूत् । ततो राजा तां ध्यायन् । पुनः पुनः सर्वतो वनं बभ्राम । तत्र चम्पकवीथीषु, नरं कञ्चिन्नियत्रितम् । कीलितं लोहनाराचैर्मूछितमपश्यत् (अपश्यन्मूर्छितं) पुरः ॥१॥तं नरं तादृशं दृष्ट्वा राजा करुणापरः कोऽयमित्यमृशत् । ततश्च तस्याग्रे खड्गमेकमपश्यत् राजा । तमसिं लात्वा प्रतीकारमकरोत् । ओषधीवलये तत्र चापश्यत् । एकयौषध्या नरं विशल्यं चक्र द्वितीयया सहजरूपं चक्रे राजा । कस्त्वमित्युक्ते भूपेन नरो जगौ-अहं वैदेशोऽनिलगतिर्नाम्नाऽस्मि । विद्याभृ-IN || दशनिवेगो मम प्रियामपाहरत् । तस्य पृष्ठौ गतोऽहं । तेन विद्येशेनेदृशी दशां प्रापितः। निष्कारणोपकारिणा | लात्वयाऽत्रागतेन मद्भाग्यात् तादृशाहुःखान्मोचितः । इति जीवितदातुस्तव किं प्रत्युपकारं करोमि ? । पाण्डुः ।
प्राह-मम वीतरागप्रसादात् सर्वमपि समस्ति । विद्याभृत् प्राह-इमे दे औषध्यौ मुद्रिकां च कामुकां गृहाण । कल्पितस्थानगामी त्वं भविष्यसि मुद्रायोगात् ।स्मृतोऽहं च तुभ्यं समीहितं दास्यामि पूरयिष्यामि च ।स विद्या
Jain Educational
For Private Personal Use Only