________________
तस्मिन्नतीसारेऽत्यर्थं जायमाने कोऽपि वैद्यस्तत्रागतः प्रभुं वीक्ष्येति प्राह-यद्यस्य परमेश्वरस्यातीसारस्फेटनसमर्थ || बीजपूरकावलेहभेषजं दीयते तदाऽतीसाररोगःप्रशाम्यति। तया रेवत्या त्रिभुवनगुरो रोगोपशान्तिनिमित्तं भावोल्लासपूर्वमौषधं दत्तम् । तदा तया प्रभोर्भक्त्या तीर्थङ्करकर्मोपार्जितम् । यतः-"ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अन्नदानात् सुखी नित्यं, निर्व्याधिर्भेषजात् भवेत् ॥ १॥ दानेन भूतानि वशीभवन्ति, दानेन , वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्, तस्मात् सुदानं सततं प्रदेयम् ! ॥ २ ॥ सततं ददतो दातुः, पात्रयोगोऽपि सम्भवेत् । वर्षन् क्षीरार्णवेऽप्यन्दो, मुक्तात्मा क्वापि जायते ! ॥ ३ ॥” तत औषधात् । प्रभोनीरोगता जाता । रेवती तेनौषधदानपुण्येनातनचतुर्विंशतौ सप्तदशमः समाधिर्नामा तीर्थङ्करो भविष्यति ।। यदुक्तं-"धर्मायापटुतां हन्तुं, दद्याद्भेषजमुत्तमः । रेवती यजिने दत्त्वा, भविष्यति जिनेश्वरः ॥ १॥"
इति सत्पात्रौषधदानोपरि रेवतीकथा समाप्ता ॥ २४ ॥ Mall सद्धर्मकर्मनिरता, भव्यलोका निरन्तरम् । लभन्ते निर्वृति सद्यः, कुन्तीव वरमानसा ॥१॥
तथाहि-मथुरायां पुर्यां भोजवृष्णे राज्यं पालयत उग्रसेनः पुत्रोऽभूत् । शौर्यपुरेऽन्धकवृष्णेतुश्च सुभद्रा दश।
Jain Education
For Private & Personel Use Only
Vatinelibrary.org