________________
वपुः । न शक्यं सुरभीकर्तुं पलाण्डुशकलं यथा ॥ ३ ॥ तस्मादियं मम भगिनी धन्या । यस्या एवंविधस्त| पसि रागोऽस्ति । तेनासौ संयमं गृह्णातु । इतो भगवान् विहरमाणस्तत्रागात् । प्रभुं स बहिरुद्याने समागतं श्रुत्वा दानं दत्त्वा यथेष्टं प्रभुं नन्तुं गतो भरतः । सुन्दर्यपि तत्रागात् । ततस्तत्र धर्मोपदेशमाकर्ण्य भरतः प्राह - भगवन् ! मयाऽस्याः सुन्दर्याश्चारित्रग्रहणेऽन्तरायः कृतः तेन महत्पापं मम लग्नम् | अहं तु बद्द्वारम्भविधानरतः । इत्युक्त्वा सुन्दरीं क्षमयामास भरतः । तदा सुन्दरी प्राह- ममेयान् कालो गतो दीक्षां विना यत् तत्कर्मविलसितम् । यतः - " पत्थरेणाह • ॥ १ ॥” ततः सुन्दरी प्रभुपार्श्वे भरतानुज्ञाता दीक्षां जग्राह । ततो विशेषतः शुद्धं चारित्रं पालयन्ती तपः करोति सुन्दरी । ब्राहृयपि प्रभुपादप्रोक्तं संयमं विशुद्धं पालयामास । अनित्यं संसारं भावयतः द्वे अपि नित्यम् । निहत्य घातिकर्माणि, निरवद्यतपःक्रमैः । केवलज्ञानमह्नाय, प्रापतुस्ते वराशये ॥२॥ प्रभूतं कालं भव्यजीवान् प्रबोध्य अष्टापदतीर्थं जग्मतुः । आयुःक्षये क्रमाचे ब्राह्मीसुन्दयौं मुक्ति ययतुः ॥ इति ब्राह्मीसुन्दरीकथा || २१ | २२ ||
रुक्मिणीकथा
कथायां कृष्णाग्राष्टमहिषीकथायां ज्ञातव्या ॥ २३ ॥
Jain Educational
For Private & Personal Use Only
w.jainelibrary.org