SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Jain Educatio निःसृत्य राजगृहं प्रत्यचालीत् । वैरङ्गिके पश्चात् समागते चिल्लणावियोगात् सुज्येष्ठा विषयविरक्ता पितरमापृच्छ्य चन्दनायाः समीपे प्रव्रज्यामुपाददौ । इतः सुज्येष्ठा इति जल्पन्तं श्रेणिकं प्रति चिल्लणाऽवग्-सुज्येष्ठा नागताऽत्रेश ! | तत्कनिष्ठाऽस्मि चिणा । श्रेणिको व्याजहार - मुधा ममायासोऽभूत् । चिल्लुणाऽवम् - अहमपि तत्कनिष्ठाऽस्मि । | चिल्लणाऽपि भगिनीवियोगाद्दुःखिन्यभूत् । सुपतिलाभात् सुखिन्यभूत् । श्रेणिकस्तु तादृक्पत्नीलाभात् सुलसापुत्राणां मारणश्रुतेश्च हर्षविषादाभ्यां युतोऽभूत् । पुरमध्ये समेत्य श्रेणिकश्चिलणां पर्यणैषीत् । इतः सुलसायाः पुत्रान् मृतान् श्रुत्वा रुदत्याः शोकः अभयकुमार उत्तारयामास । इतः कदाचिद्राजा हृष्टचिल्लणादेव्याः कृते । | एकस्तम्भगृहकरणायाभयमादिशत् । तेनाभयेन कोऽपि सुर आराधितः । तस्य पार्श्वादेकस्तम्भं धवलगृहं कारितं । सर्वर्तुफला वाटिका च । सा तत्र वसन्ती एकाग्रचित्ता जिनमर्चति । क्रमाच्छीलविषये तथा दृढाऽभूत् चेल्लणा यथा जिनोऽपि वीरः सुलसाया इव तस्याः श्लाघां करोति । कदाचिद् हिमसमये रात्रौ ' स कथं भावी' ति चिल्लणाव्याहृतिं श्रुत्वा प्रातर्नृपो रुष्टो वीरं समवसरणे पप्रच्छ - भगवन् ! चिलणा प्रिया सती न वा ? । प्रभुणोक्तम् - सर्वास्तव पत्यः सत्य एव । कल्ये कायोत्सर्गस्थः साधुस्त्वया वन्दितः । स एव कथं भावीति कृपया तयोक्तम् । For Private & Personal Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy