________________
प्रार्थयामास चेटकम् । न दास्ये पुत्रीमिमां श्रेणिकायेत्यब्रवीच्चेटकः । दूतमुखाच्चेटकोक्तमाकर्ण्य श्रेणिकः खिन्नोऽभूत्। ततस्तातमनोगतभावमिङ्गिताकारेण ज्ञात्वा अभयकुमारोऽवग्-तात ! मा शोचीस्त्वं । समीहितं च करिष्ये:हम् । ततः पितृमनोरथपूरणाय वैनयिकबुद्ध्याऽभ्येत्य स्वगृहेऽभयश्चित्रपटे पितृरूपमलीलिखत् । ततो गुलिकया। स्वरवर्णभेदं कृत्वा वणिग्वेषं च गृहीत्वा विशाली पुरीं ययौ । उपचेटकराजान्तःपुरमापणमग्रहीदभयः। तत्रान्तःपुरचेटीनां क्रेतव्यमधिकं ददौ च । अन्येचुरभयं श्रेणिकरूपं चित्रपट्टलिखितं नमन्तं वीक्ष्य सुज्येष्ठादासी l जगौ-कस्येति ? । उक्तम् । ततस्तया दास्या स्वामिन्या अग्रे प्रोक्तम् । ततः सुज्येष्ठया पारम्पर्येण श्रेणिकस्य रूपं ज्ञात्वा स्वदासीपार्थादभयं प्रति प्रोक्तम्-तस्य श्रेणिकस्य मया सह पाणिग्रहणं कारय।अभयेन ज्ञापितं छन्नं । किन क्रियते ? । तव पिता त्वां तस्मै न ददाति । ततः सुज्येष्ठया ज्ञापितं । छन्नं श्रेणिकमत्रानय। अभयेन ज्ञापितम्सुरङ्गायोगेनात्रानेष्यते मया। स त्वां परिणेष्यति। ततोऽभयेन ज्ञापितं श्रेणिकाय-यत् त्वयाऽमुष्मिन् दिने समा-2 गन्तव्यं । तस्मिन्नवसरे सा सुज्येष्ठा त्वामङ्गीकरिष्यति । ततः श्रेणिको हृष्टः। ततोऽभयेन तदपि सुज्येष्ठायै ज्ञापित दिनम् । अभयेन ज्ञापिते दिने श्रेणिकः सुलसायाः सुतैत्रिंशद्भिः सहापरैश्च सेवकैर्युतश्च रथारूढः सुरङ्गायां
भरते.५५
Jain Education indian
For Private Personel Use Only