SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- ते मिथः प्रीतिपरे साक्षात् सरस्वत्योर्मूर्ती इव रमेते । अन्येद्युः सुज्येष्ठाचिल्लणाभ्यामलते शुद्धान्ते कापि 1 चेणाश्वरवृत्तौ । वाला स्थविरा तापसी समागात् । सा च शिवधर्ममाचष्ट । तदा तु सुज्येष्ठा तापस्या प्रोक्तं धर्ममिति निराकरोत्-“कूपेषु । चाधमं स्नानं, वापीस्नानं च मध्यमम् । तडागे वर्जयेत् स्नानं, गृहस्नानं च कारयेत् ॥ १॥ गृहे चैवोत्तमं । ॥३२४॥ स्नानं, जलं चैवानुशोधितम् । तस्मात्त्वं पाण्डव० २” इत्यादि सुज्येष्ठया जिनधर्मे स्थापिते सति सा तापसी | उल्लुण्ठतया जल्पति । ततः स्वचेटिकापार्थादर्धचन्द्रप्रदानेन गले गृहीत्वा सा तापसी पुराबहिर्निष्कासिता ।। फालच्युतद्वीपीव सा तापसी अलब्धसन्माना प्राप्तपराभवा दध्यौ-इमां सुज्येष्ठां दुष्टगर्वितां भूयसीषु सपत्नीषु सपत्नीदुःखपात्रीकरोमि अहम् । एवं ध्यात्वा तापसी सुज्येष्ठारूपं चित्रपट्टलिखितं कृत्वा राजगृहपुरे श्रेणि-IN |कायोपनिन्ये । तां सुज्येष्ठां चित्रपट्टलिखितां दृष्ट्वा राजा हृतचित्तो दध्यौ-किं पातालकन्या ? इत्यादि । अप-10 |च्छद्राजा-कस्येयं पुत्री ? । विद्यमाना त्वया लिखिता अथवा अविद्यमाना ?। परिणीता विद्यतेऽथवा अपरिणीता ? | ॥ ३२४ ॥ | तापसी प्राह-विशालेशस्य चेटकस्य भूपस्य सुज्येष्ठारूपं मया लिखितमत्र । तां कन्यामुद्रोढं त्वमर्हसि । नान्यः। || किञ्चिदानं वितीर्य तस्यै राजा तामुद्रोढुकामः शून्यचित्त इवाजनि । ततो दूतं प्रेष्य श्रेणिकराजा सुज्येष्ठां Jain Educatio t ional For Private & Personel Use Only djainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy