SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Educati हस्तमन्यतश्चकार । तदा सहसा चन्दना जागरिता सती प्राह रे दुराचारे! मम हस्तोऽन्यत्र कथं कृतः १ । | तयोचे - सर्प आगच्छन्नस्ति । तेन वचसोत्थाय चन्दना जगौ-त्वं कथमीदृशे ध्वान्ते सर्प द्रक्ष्यसि ? । तयोक्तंज्ञानेन । चन्दनया चोक्तं- किं ज्ञानं, प्रतिपाति अप्रतिपाति वा ? । मृगावत्योक्तं-त्वत्प्रसादादप्रतिपाति । ततस्तदा चन्दनाया मृगावत्याः पादयोः पतित्वा क्षमणकं कुर्वत्याः केवलज्ञानमुत्पन्नम् । इति मृगावतीकथा ॥ १८ ॥ प्रभावतीकथा उदयनकथामध्ये ज्ञेया ॥ १९ ॥ पालयन् रुचिरं शीलं, शुद्धभावेन देहवान् । चिलणेव समाप्नोति, कल्याणकमलां किल ॥ १ ॥ तथाहि-विशालायां पुरि चेटीकृतारातिश्वेटको राजा राज्यं न्यायाध्वना करोति स्म । पृथक्पृथग्राज्ञीभवाः सुखप्रसूचिताः सप्त कन्या जज्ञिरे । क्रमात्तासु राज्ञा वीतभये उदयनभूपतेर्दत्ता प्रभावती १ । पद्मावती चम्पेशस्य | दधिवाहनस्य दत्ता २ । मृगावती कौशाम्बीनाथस्य शतानीकस्य दत्ता ३ । शिवा प्रद्योतनस्य भूपस्योज्जयिनीशस्य | दत्ता ४ | सुज्येष्ठा तु कुण्डग्रामाधिपस्य श्रीवीरज्येष्ठभ्रातृनन्दिवर्द्धनस्य दत्ता ५ । सुज्येष्ठाचिल्लणे २ कुमारिके राज| भुवने देवकुमारिके इव तिष्ठन्त्यौ धर्मकर्मकुशले बभूवतुः । ते रूपश्रिया रतिप्रीतितुल्ये अभूताम् । कुलकलाविज्ञे ational For Private & Personal Use Only w.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy