SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ वृत्तं। ॥ श्रीभरते- जगाद च मृगावती । प्रत्रजिष्याम्यहं चण्डप्रद्योतानुज्ञया प्रभो!॥१॥ चण्डः प्राह-यद्रोचते तत् कुरु । मृगावतीश्वरवृत्ती २विभागे त्वत्पुत्रः खं राज्यं करोतु । ततः प्रद्योतो वीरवचसा प्रमृष्टवैरो मृगावतीसुतमुदयनं कौशाम्ब्यां राज्येऽतिष्ठिपत् । प्रद्योतस्याष्टाभिः प्रियाभिः सह मृगावती व्रतं जग्राह । ततः प्रभुणा ताः सर्वा मृगावतीयुताश्चन्दनायै सामाचारी ३३२३॥ शिक्षितुमर्पिताः। ततश्चण्डप्रद्योतो धर्ममङ्गीकृत्य स्वपुरं ययौ । ततः प्रभुः पृथ्वीं प्रतिबोध्य बहुकालेन पुनरपि कौशाम्ब्यां समवासार्षीत् । तदा तृतीयपौरुष्यां भगवद्वचः श्रोतुं चन्द्रसूर्यो स्वस्खविमानगौ प्रभु नन्तुं चागतौ ।। व रविविमानतेजोभिस्तदा रात्रिः समायाताऽपि केनापि न ज्ञाता । सन्ध्यां मत्वा तदा चन्दना प्रवर्तिनी खोपाश्रये गत्वा । प्रतिक्रमणादि सर्वां क्रियां कृत्वा सुप्ता । इतश्चन्द्रसूर्ययोः स्वस्थानं गतयोर्मगावती भीता । खोपाश्रयं गता। ईर्या-INT पथिकी प्रतिक्रम्य प्रतिक्रमणं कृत्वा स्वामिनी प्रति प्राह मृगावती-अहं मुग्धा सती इयती वेलां तत्र स्थिता । चन्दनाऽवग्-महति कुले समुत्पन्नाया गृहीतदीक्षाया रात्रौ उपाश्रयाबहिः स्थातुं न युक्तम् । मृगावती पदयो- ॥ ३२३॥ गर्लगित्वाऽवग-अचैतन्यादिदं जज्ञे तत् क्षम्यतां भगवति । चन्दनायास्तदा निद्रा समागात् । मृगावती स्वयंकृतं । कर्म निन्दन्ती सर्व कर्म शुभाशुभं क्षिप्त्वा केवलज्ञानं प्राप । तदानीं तत्र सर्पमागच्छन्तं दृष्ट्वा मृगावती भगवत्या al Jain Education G TIMILI For Private 3 Personal Use Only WIlinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy