________________
वीक्ष्य हक्कितो। निष्काशितश्च स्वगृहात् । ततो भ्रमन् एकोनपञ्चशतचौराणां मिलितः। पञ्चशती जाता । सवें । सम्भूय चौर्यं कुर्वन्ति । एकदा ते चौराः श्रेष्ठिगृहे चौर्यार्थं प्रविष्टाः। तान् धनं गृह्णानान् वीक्ष्य साऽऽकुला श्रेष्ठिपुत्री जगौ-यूयं किं धनमेव गृह्णीत ? । मां स्त्रीं कथं न गृह्णीत? । ततस्तैः सा जगृहे । स्वस्थाने नीता । गतेस्तैरेकैव पत्नी कृता। सा तु सर्वेषां तेषां रतदानेन न तृप्यति । चौरैर्विमृष्टम्-इयं वराकी एकाकिन्यस्ति । वयं तु बहवः स्मः । तेन मरिष्यति।ततो द्वितीया तैरानीता प्रिया । सा पूर्वस्त्री तां सपत्नीमसहमाना हन्तुमिच्छति ।। इतो गतेषु तेषु चौरेषु चौर्याय पूर्वभार्याऽतिकोपिनी तां नवीनां कूपे प्रक्षेपयामास । ततस्तैरागतैस्तस्याः। स्त्रिया वृत्तान्ते पृष्टे सा पत्नी जगौ-अहं किं तस्या रक्षणे यामिकीकृताऽस्मि ? । ते दध्युचौराः-अनयैव सा हता। हिजोऽपि व्यमृशत्-किं मे सा स्वसा?। यस्या मया पूर्व योनि स्पृशता सुखमभूत् । इहागतोऽस्ति सर्वज्ञ इति ध्यात्वा समागत्यात्र मनसा संशयमपृच्छम्। लज्जया भगवन् ! या सा सा सा । अस्माभिस्तु प्रोक्तं-या सा सा सैवेति। यतः"एवं च वञ्चनाचञ्चत्पञ्चत्वादिविडम्बनैः । रागद्वेषादयो लोकान्, दुःखयन्ति भवे भवे!॥१॥” इत्याकर्ण्य स चौरः संविग्मवान् प्रभोः पार्श्वे व्रतं प्राप्य पल्लीं गत्वा प्रबोध्य तांश्चौरान प्राब्राजयन्निजान् । उत्थाय नाथमानम्य,
For Private Personal Use Only
Jain Education
lainelibrary.org