SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३२२ ॥ Jain Education यस्या वारो यस्मिन् दिने भवति सा शृङ्गारं करोति । नान्या । इतः कस्मिंश्चित् कार्ये स्वर्णकारे गते सर्वाः शृङ्गारं चक्रुः । तदा ताः कृतशृङ्गारा दृष्ट्वा स स्वर्णकृद् द्विष्टस्तास्तास्ताडयामास । ततस्तासां रक्षार्थं द्वारे एव तिष्ठति स्वर्णकृत् । स कदापि निजे गृहे किमपि मित्रं न भोजयति । स्वयं कस्यापि गृहे न याति । ताः सर्वाः कारागार इव | स्वगृहे स्थिताः स्वं स्वं मन्यन्ते । एकदा बलात् केनापि सुहृदा खगृहे भोजयितुं खर्णकृन्निमन्त्रितः गतः। ताः सर्वा हृष्टाः। | कृतस्नानलेपमण्डनाः पश्यन्त्यो दर्पणेषु स्वं स्वं मुखं तस्थुः । तदाऽकस्मात् खर्णकृत् तत्रागात् । भार्यास्ताः तथाविधा वीक्ष्य एकां तावत् क्रुधा हन्तुं दधावे । तां मस्तके जघान यदा तदाऽन्याभिः पत्नीभिर्विमृश्य स्वप्राणरक्षार्थं दर्पणाः क्षिप्ताः । तासां सर्वासां दर्पणघातान्मृतः स्वर्णकृदपि । पश्चात्तापपरा ता अपि अग्निप्रवेशादिना खमृतिं चक्रुः । ता विषद्य पश्चात्तापेनाकामनिर्जरया च स्त्रीणामेकोना पञ्चशती पल्यां पुंस्त्वेनोत्पन्नाः । ते च क्रमात् पल्यां तस्करा बभूवुः । पूर्वमृता स्वर्णकृत्प्रिया कस्यापि रोरस्य विप्रस्य पुत्रोऽभृत् । स्वर्णकारस्तु कस्यचिच्छ्रेष्ठिनः पुत्री जाता । बालायाः पितृभ्यां तस्या बालायाः पालकः कृतः । सा तु बाला शिशुत्वेन रुरोदात्यर्थं । स बालपालको यदा यदा तस्या गुह्ये हस्तं दत्ते तदा तदा सा मुदिता भवति । अन्यथा रौति स्म । तं तथा कुर्वाणं तदा पितृभ्यां For Private & Personal Use Only मृगावती वृत्तं । ॥ ३२२ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy