________________
Jain Education In
षान्निवेश्य हस्ताद्धस्तमिष्टिकानिचयैस्तूर्णमानीतैर्वप्रं कारयामास । तदा मृगावत्या ज्ञापितम् अहं न त्वां मनसाऽपीच्छामि, कायस्तु दूरे तिष्ठतु । मया तु शीलरक्षायै प्रपञ्चोऽयं वप्रकरणरूपः कृतः । ततः क्रुद्धः प्रद्योतः सन्नह्य सर्वां सेनां चचाल कौशाम्बीं प्रति । कौशाम्बीसमीपे गत्वा चण्डेन ज्ञापितम् - भो मृगावति ! यदि त्वमात्मनश्चात्मपुत्रस्य हितं वाञ्छसि तदाऽत्रागच्छ, नो चेत्सवं राज्यादि गतमेव तव । इतः श्रीवीरजिनः सर्वज्ञस्तच्छी लमाहात्म्य कर्षितस्तत्रागत्य समवासार्षीत् । मृगावती प्रभुमागतं ज्ञात्वा पुरद्वारमुदघाट्य श्रीवर्द्धमानं नन्तुं समवसरणे गता । देवा अनेके तत्रागताः । प्रभोरनुभावाद्वैरं मुक्त्वा चण्डप्रद्योतोऽपि श्रीवीरं प्रणम्य धर्मं श्रोतुमुपविष्टः ! । प्रभुणा धर्मदेशना विदधे । इतः कोऽपि तदा नाथं तत्राभ्येत्य हृदयेगूढं खमीहितं दधानः प्रभोः पुरः स्थितः । प्रभुणोक्तं - पृच्छतु भवान् । स जगौ धन्वी - भगवन् ! या सा सा सेति ? । तदा प्रभुणोक्तंभो धन्विन् ! या सा सा सैव । तदा गौतमः प्रपच्छ. भगवन् ! कः प्रश्नोऽयं कृतोऽनेन ? । अस्य प्रत्युत्तरं विस्तरात् कथय । भगवानाह - चम्पापुर्यामेकः स्वर्णकारो धनी । यां यां कन्यां विलोकते स्म ततो ततो धनदानेन व्युवाह सः । क्रमात् पञ्चशती कन्यानामभृत् तस्य गृहे । सर्वासां प्रत्येकमाभरणादीनि भूषणानि कारयामास ।
For Private & Personal Use Only
nelibrary.org