________________
श्वरवृत्ती
२ विभागे
वृत्चं।
॥३२०॥
ततः चित्रकः प्राहेति-भो! भो! यक्षपते! तात, विश्रान्तोऽस्मि (सि) तदस्तु मे।दृष्टे मयाऽङ्गदेशेऽपि, सर्व भवतु तद्वपुः। मृगावती॥१॥ यक्षः प्राह-एवं भवतु । ततो हृष्टश्चित्रको यक्षं नत्वा पुरमध्ये सर्वं यक्षदत्तवरादिस्वरूपं ज्ञापयित्वा राजानं । प्रमोदयामास । ततः पुरमध्ये महोत्सवोऽभूत् । ततः क्रमात् स कौशाम्बी शतानीकभूपपालितां ययौ चित्रकृत् । राज्ञो मिलितश्च । राज्ञा खां चित्रशालां चित्रयितुं तस्मै दत्ता । तस्य चित्रशालां चित्रयतो नानाव्याघ्रहंसमृगजम्बूकैणादिरूपैः एकदा मृगावत्या नृपपत्न्याश्चेटकभूपसुताया गवाक्षस्थाया जालकान्तरेण क्रमाङ्गुलिदृष्टिगोचरे पपात । तदा तस्य चित्रकस्य तस्य रूपं चित्रयतो यक्षदत्तवराद्यादृशं समस्ति तादृशमभूत् । ऊरौ मषीलवोऽप-IN तत् । स चित्रकृन्मषीबिन्दु ममार्ज । मार्जितं मषीबिन्दु मृगावतीरूपस्योरौ पुनः पुनः पतन्तं दृष्ट्वा चित्रकृच्चिन्तयामासेति ।-निर्भाग्यस्य विपत्ताप, इवोन्मृष्टोऽपि यन्मुहुः । मषीलवोऽपतत्तस्यास्तन्मन्येऽस्तीह लाञ्छनम् ॥ १॥ ततस्तद्रूपं मृगावत्याश्चित्रितं वीक्ष्य हृष्टोऽपि भूप ऊरुबिन्दुदर्शनात् क्रुद्धोऽभूत्तस्मिन् चित्रकरे । दध्यौ च भूपः- ॥ ३२० ॥ एष पापमानवोऽस्ति । अनेन मृगावती विप्लुतैव । इहोरौ संस्थायी बिन्दुरित्यन्यथा कथं जानात्येषः ? । ततो रुष्टो राजा चित्रकारं हन्तुमादिष्टवान् । तदा चित्रकारास्तत्रैत्य प्रोचुः-स्वामिन् ! अस्य यक्षदत्तः प्रसादोऽस्ति । तेनै
Join Educatio
nal
For Private
Personel Use Only