________________
समागात् । तां मातरं कृत्वा स्थितः सः। पुत्रस्य घटे नाम्नि तदाऽऽयाते कृतान्तलेख इव वृद्धा नन्ती वक्षः कराघातैः स्वपुत्रपुरो रुरोदतराम्। ततश्चित्रको वैदेशिकः प्राहेति-चित्रयिष्याम्यहं यक्षं, यक्षाराधनदक्षधीः । मह्यं न ह्यन्तको माता, तत्र घातक्षमो भवेत् ॥ १॥ इति प्रबोध्य तां वृद्धां कृत्वा षष्ठं तपः पवित्रीभूय तस्मिन् पर्वदिने स युवा यक्षगृहे गतः। चारुचन्द्रकस्तूरीकाद्यधिवासितैर्नवैः कूर्चकैर्वेष्टयित्वा अष्टधामुखं पद्यामुखप्रदत्तसारसौरभमूर्तेर्यक्षस्याचा चित्रयामास चित्रको भक्त्या ।मनोवचनकायैः संवरितात्मा चित्रको यक्षमेकाग्रचेतसा चित्रयित्वाऽग्रे भूत्वा च कृताञ्जलिराह-" मया चित्रयता त्वां यदयुक्तं विहितं मनाम्। प्रसद्यः तत्समं सद्यः, क्षमख त्वं ममोपरि ॥ १ ॥ त्वमेव त्रिजगजन्तुहितवात्सल्यकारकः । त्वयि तुष्टे जनः किं किं ?, शुभं न लभते । खलु ॥ २ ॥” आकर्यैतत् सुरप्रिययक्षो हृष्टोऽवग्-भो चित्रक! तुष्टोऽस्मि तुभ्यं । वरं मार्गय । चित्रको जगौयदि तुष्टोऽसि त्वं तदाऽतः परं प्रजाघातः श्वभ्रप्रदो न कर्तव्यः। यतः-"जीवानां हिंसया जीवा, लभन्ते नरकेसुखम् । यो न कुर्याद्वधं जन्तोस्तस्य स्वर्गसुखं भवेत् ॥ १॥” इत्यादि तद्वाक्यं श्रुत्वा हृष्टो यक्षो जगाद-अतः | परं जीवहिंसा मया न कर्तव्या । अयं तु वरः परोपकाराय मम हितकृते याचितस्त्वया । स्वस्मै वरं वृणीष्व ।
Jain Educati
o nal
For Private & Personel Use Only
jainelibrary.org