________________
॥ श्रीभरते. श्वरवृत्तौ
१२ विभागे
॥ ३१९ ॥
Jain Education I
यादृश्यामवस्थायां हतस्तादृश्यामवस्थायां प्रासादे स्वपरिवारयुतः पूज्यते तदा मुञ्चामि । ततः प्रद्योतस्तथा चकार । ततस्तेन नन्दीशेन खखामी सर्वत्र ग्रामे ग्रामे पूजितः कारितः । ततोऽपि लोकैस्तथा पूज्यते । इतः सुज्येष्ठा महासती श्रीमहावीर जिनोपदेशान्नानाविधं तपः कुर्वाणा क्रमात्सर्वकर्मक्षयात्केवलज्ञानं प्राप्य मुक्ति ययौ । प्रद्योतभूपस्य पत्नी शिवाऽपि श्रीवीरपार्श्वे दीक्षां लात्वा शुद्धशीला सर्वकर्मक्षयान्मुक्तिं ययौ । इति शिवाकथाप्यत्र ज्ञेया । इति सुज्येष्ठाशिवयोः कथा समाप्ता ॥ १७ ॥
जीवो निन्दन् स्वयं कर्म, कुत्सितं स्वान्यगर्हितम् । मृगावतीव लभते, केवलज्ञानमद्भुतम् ॥ १ ॥
तथाहि - साकेतनानि पत्तने सुरप्रियावो यक्षोऽभूत् । विचित्रं रूपं तस्य यक्षस्य प्रतिवर्षं चित्र्यते । स यक्षश्चित्रितः सन् चित्रकं हन्ति । यदि न चित्र्यते स तदा ग्रामलोकं हन्ति वर्षं यावत् । ततश्चित्रकरकुलं नष्टम् । ततो राजा प्रजादुष्टमारिभीरुश्चित्रकरान् खभटान् प्रेष्य समीपे आनैषीत् । ततस्तेषां चित्रकराणां सर्वेषां नामानि लिखित्वा कुम्भे क्षिप्तानि । यस्य नाम निस्सरति स यात्रादिने चित्रयति यक्षं । ततस्तं चित्रकरं यक्षो हन्ति स्म । एवं काले गच्छति कोऽपि चित्रकरदारकः कौशाम्बीतः सच्चित्रकौशलसिद्धये वृद्धायाश्चित्रकर्या गृहे
For Private & Personal Use Only
मृगावतीवृत्तं ।
॥ ३१९ ॥
inelibrary.org