SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ भरते. ५४ पञ्चभिर्बाणैः सत्यकिर्जगद् वशीचकार । तया सह संवसतस्तस्य बहुः कालो गतः । अन्येद्युस्तं विश्वस्तं साऽपृच्छत्तव वर्ष्मणि सदा सन्निहिता विद्याः स्युरथवा पार्श्वे कस्य ( हिं) चित् ? । स प्राह - सदैव यत्रितस्यान्ते, रतियत्रक्षणं विना । सदा सन्निहिताः सन्ति, सत्यमित्याह सत्यकिः ॥ १ ॥ ततः सा छन्नं प्रद्योतपार्श्वमेत्य प्राह-अयं सत्यकिर्यदा मया सह भोगं भुङ्क्ते तदा खां रोहिणीं विद्यां खड्ने मुञ्चति । तदा कोऽपि समेत्य तं हन्ति तदा हन्यते । अन्यथा न केनापि हन्तुं शक्यते । तदा राज्ञा एको भृत्यो गणितपत्रच्छेददक्षस्तस्य वधायादिष्टः । उक्तं च राज्ञातथा त्वया सत्यकिः खड्गेन हन्तव्यो यथा वेश्यासौ उमानाम्नी न हन्यते । तेन भृत्येनोक्तं- तथा मया कर्तव्यं यथा स एव हनिष्यते मया । ततः सा वेश्या सत्यकिपार्श्वे गता । यदा सत्यकिस्तया सह मैथुनं कर्तुं प्रथमं खां रोहिणीं विद्यां खड्ने पृथग् मुमोच । ततो यावत्तया सह भोगान् भोक्तुं लग्नः तदा स भृत्यो यावत्तं हन्तुं लग्नः तदा | परैर्भटैः प्रोक्तः- तथा त्वया कर्तव्यं यथाऽसौ सन्निहितो म्रियते । तदा तेन भृत्येन सत्यकिः सप्रियो हतः । निजखामिनं हतं ज्ञात्वा ( पुर्युपरि शिलां कृत्वा ) नन्दीशेनोक्तं - मम स्वामी त्वया घातितस्तेनाहं त्वां स्त्रपुरसहितं हनिष्यामि । ततः प्रद्योतः प्राह-यत्त्वं कथयसि तदहं करिष्यामि । शिलां पश्चात्कुरु । ततो नन्दीशो जगौ - मदीयस्वामी Jain Education International For Private & Personal Use Only elibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy