________________
बालो विद्या अनेकशोऽतीवाना अस्मरत् । प्रसद्य प्रसन्ना देवतास्तं प्रति प्रोचुः। त्वं रोहिणी केवलां साधय। तस्यां सिद्धायां रोहिण्यां वयं सिद्धा भविष्यामस्तव । तां रोहिणी साधयतस्तव सप्तमो भवः । तया विद्यया । त्वं पातकीतिकृत्वा पञ्चसु जन्मसु हतः। षष्ठे तु भवे षण्मासशेषायुषि सति रोहिणी तुष्टाऽभूत्त्वयि । तदा त्वया । खल्पायुष्कत्वान्नाङ्गीकृता । तेनास्मिन् भवे तव प्रसन्ना भविष्यति रोहिणी सद्यो विघ्नापहारिणी । ततोऽसौ ॥ सत्यकिर्ध्वमुखस्तपस्तपति । विद्यासाधनार्थमुच्चैश्चितां निष्पाद्य देहदाहार्थं वह्नि लात्वा चितामध्यस्थ एवं प्राह-अहमस्यां चितायां प्रविश्य ज्वलिष्यामि रोहिणी विद्यासाधनाथ, तेन सिध्यतु सा विद्या ममेति प्राह । ततो हूतवह्निना जाज्वल्यमानायां संचरन् सत्यकिरङ्गुष्ठेन विद्यां स्मरंश्च मत्रं पुनः पुनर्जपति स्म । तदा समेत्य । कालसंदीपस्तां चितां भूरिकाष्ठभरैर्बभार तथा यथाऽसौ भस्मसाद्भवति । एवं तस्य कालसंदीपस्य विनं कुर्वतः सप्तमे दिने प्रत्यक्षीभूय देवता तं विघ्नकारकं न्यवारयत् । तं सत्यकिं प्रति देवता रोहिणी प्राहयच्छ त्वं प्रतीकमेकं मे येन प्रतीकेन तवाङ्गं प्रविशामि । ततः सत्यकिना खं भालं दत्तम् । ततः सा रोहिणी भालेन कृत्वा तस्य सत्यकेहं प्रविवेश । ततस्तदा तस्य तृतीयं नेत्रमभूत् । असौ त्रिनेत्र इति ख्याति
Jain Educat
i
onal
For Private & Personel Use Only
jainelibrary.org