________________
॥ श्रीमरतेश्वरवृत्ती
२ विभागे
॥ ३१७ ॥
Jain Education
| समीहते ॥ २ ॥ परिव्रणितलीनाया, निष्कामाया य आत्मजः । जातो ब्रह्मविदः स स्याद्विद्यानां पात्रमुत्तमम् ॥ ३ ॥ ततः पेढालेन विद्याभृताऽन्यदा विमानारूढेन गच्छता साध्वी तपः कुर्वती दृष्टा । तां पश्यन् मोहितः खगः । स च विद्याभृत् मधुकरं विकुर्व्य तस्याः साध्व्या आतापनां कुर्वत्या योनौ भ्रमररूपेण स्ववीर्यमक्षिपत् । क्रमेण सुज्येष्ठाया गर्भः साध्वीभिर्ज्ञातः । हक्किता सा ताभिः - रे पापिष्ठे ! त्वमेवंविधं कार्यं किं कृतवती ? | तया प्रोचे - भो महासति ! मया कुत्रापि मनसाऽपि शीलं न खण्डितम् । शरीरं पश्चात्तिष्ठतु । ततस्ताभिर्ज्ञानी पृष्टः । भगवन्नियं सती अथवा असती ? । तेन ज्ञानिनोक्तम् - इयं साध्वी सर्वासु सतीषु मुख्याऽस्ति । अस्या योनौ | विद्याधरेण खं वीर्यं रहसि क्षिप्तम् । अनया तु न ज्ञातम् । ततः सुज्येष्ठया पुत्रोऽसावि । स तु बालः श्राद्धालये वर्द्धितः । सत्यकिरिति नाम जातम् । स सत्यकिः साध्वीभिः सहैकदा श्रीवीरजिनपार्श्वे गतः । साध्वीभिः | प्रभुर्नतः । तदा कालसंदीपनामा खेटकस्तत्र समवसरणे प्रभुं पृष्टवान्-भगवन् ! को मां हन्ता भविष्यति ? । प्रभुणोक्तम् - इतः सत्यकितो मृत्युस्ते भविष्यति । ततः स कालसंदीपो मनसि दध्यौ - अहो कौतुकं, मामेष बालो हनिष्यति । स बाल आर्याभिर्लालितो धीमानेकादशाङ्गानि कर्णश्रुत्यैवाध्यगात् । तीव्रप्राग्जन्मसंस्कारात् स
For Private & Personal Use Only
सुज्येष्ठा
कथा।
॥ ३१७ ॥
Melibrary.org