SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ देवकुमारः समेति तदाऽहं खयमङ्गीकृतं पति मुक्त्वा नान्यमङ्गीकरोमि।ततो राज्ञोक्तं त्वमेकाकिनी वनेऽत्रासि । अहन्तु यदि बलादपि त्वामङ्गीकरिष्यामि तदा त्वया किं करिष्यते ? । पद्मावत्योक्तं-यदि समधिकं करिष्यसि | तदाऽहमात्महत्यां तुभ्यं दास्यामि । एवं बहुशोऽपि तेन जल्पितेन यदा सा पद्मावती न चचाल, तदा स देवः प्रादुर्भूय पाह-त्वं धन्यासि कृतपुण्यासि सतीतमासि।इत्युक्त्वा तस्याः स्तुतिं कृत्वा देवः कुण्डलद्वयं वितीर्य खस्थाने मुमोच। देवो भूपाने वदति-भूप! तवेयं पत्नी महासती। मया चालिताऽपि न चलिता शीलात् । ततो देवः स्वर्गे गतः। क्रमात् पद्मावती श्रीवईमानखामिपार्श्वे दीक्षां गृहीत्वा सर्वकर्मक्षयान्मुक्तिं गता। इति ज्येष्ठाकथा समाप्ता ॥ १६॥ जिननाथोदितं धर्म, कुर्वाणो भावतोऽनिशम्। सुज्येष्ठेवाक्षयं स्थानं, भवति (लभते) भविको जनः॥१॥ M तथाहि-विशालायां पुरि चेटको राजा राज्यं कुरुते स्म । तस्य द्वे सुते मिथः प्रीतिस्यूते सुज्येष्ठाचिल्लणे बभूNवतुः । प्रपञ्चेन चिल्लणा श्रेणिकेन परिणीता । सुज्येष्ठा तु चिल्लणाविरहाद्विरागवत्यभूत् । सुज्येष्ठा श्रीचन्दनाया अन्तिके व्रतं जग्राह । तीव्रतपःपरा सुज्येष्ठा बभूव । अन्तर्वसति गुप्तेव, कदाचित्तपनातपे । आतापनां प्रतायन्ती, |जिनातां तनुते स्म सा ॥१॥ इतश्च नाम्ना पेढालः, परिबाडेति खेचरः। सिद्धोऽनवद्यविद्यानां, न्यासपात्रं Jain EducationHEPILEmail For Private Personal Use Only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy