________________
अजना
॥ श्रीभरते- ततोऽपि क्रुद्दा श्वश्रूः प्राह-स्नुषे ! किमीदृशमकार्यं कृत्वा खचित्तकल्पितमुत्तरं मदने विधत्से ?। तदेवं वचो | सूतान ते प्रत्येमि । इत्यादि कर्कशं वदन्ती श्वश्रूस्तलारनरैश्च रथमारोप्य तां माहेन्द्रपुरोपान्ते विसर्जयामास । सुन्दर
चरित्रम्। ततोऽञ्जनासुन्दरी पितृगृहं गता। पिताऽपि माताऽपि च सदोषां पुत्रीं मन्यमानौ निजालयाद्वसन्ततिलकादासीयुतां । तदैव निरवासयताम् । पितृग्रामेषु पितृनिर्देशात् प्रवेशमलभमानाऽञ्जनासुन्दरी अरण्यं गता । यतः-" स्फुरन्त्युपायाः शान्त्यर्थमनुकूले. ॥१॥" तिष्ठन्ती दुःखेनान्यदा यतिमेकं तपस्विनं वीक्ष्यानंसीत् । ततस्तत्र धर्मोपदेशमाकाञ्जनासुन्दरीप्रेरिता सखी प्राह-भगवन् ! अनया किं कर्म कृतं येनास्याः कलङ्क ईदृशो लग्नः? ततो मुनिर्जगौ-देवलोकात् प्रच्युतोऽस्या गर्भेऽवतीर्णोऽस्ति जीवः। स जातःसन् मुक्तिगामी भविष्यति ।अन्यच्च श्रूयताम्-पूर्व कस्मिंश्चित् पुरे कनकरथराज्ञः उभे पत्न्यौ लक्ष्मीवतीकनकोदर्यो परमाहत्यौ अभूताम् । तस्या लक्ष्मीवत्या अर्हदों कुर्वत्या जैनी प्रतिमां हृत्वाऽन्यदा सापत्न्यात् कनकोदरी रहो मुमोच । प्रतिमां गतां N ar ज्ञात्वा दुःखिन्यभूत् लक्ष्मीवती। कनकोदरी साध्वीपार्श्वे जिनप्रतिमाहरणपापमाकर्ण्य पश्चात् स्वस्थानके च मुमोच प्रतिमाम् । ततः प्रान्ते धर्मावबोधात् सा कनकोदरी खर्गे देव्यभूत् ॥ ततश्च्युता सा कनकोदरी देवी अञ्जना
* MAP & NS
Jain EducatioC
jainelibrary.org
For Private 8 Personal Use Only
ional