________________
सुन्दरी तव सखी जाता । पूर्वभवाहप्रतिमाहरणपापादिदानीमर्तिभागभूदेषा । भुक्तप्रायं कर्मास्या बभूव ।।
अधुना विशेषात् पुण्यं कुरु । ततोऽञ्जनासुन्दरी स्वपूर्वभवकृतं कर्म तत्प्रतिमाहरणं श्रुत्वा धर्मकर्मणि सादMalराऽभूत् । यतः-"धर्मश्चिन्तामणिः श्रेष्ठः० ॥१॥” तत्रस्था सा कतिभिर्दिनैः कन्दरायां पुत्रमसूताऽञ्जनासु
न्दरी । क्रमात्तां रुदतीं वीक्ष्य प्रतिसूर्यखेचरस्तत्रागतः संस्तां भागिनेयीमितिकृत्वा तामादाय स चचाल । व्योम्नि। विमाने वेगतो याति जनन्युत्सङ्गतोऽभकोऽपतत् । स बालः पर्वतशिखरात् पतन शीलां चूणींचकार । प्रतिसूर्यो वेगेन बालमादायाक्षताङ्गं भगिन्यै ददौ । प्राह च पर्वतस्य चूर्णीभवनखरूपम् । प्रतिरूपस्तं निजे । द्रङ्गे हनुरुद्राभिधे निनाय । जातमात्रोऽयं बालो हनुरुद्रे समागादिति हनुमानिति नाम दत्तं मातुलेन ।
क्रमादृद्धि प्राप । इतश्च सान्निध्यं कृत्वा स्वपुरमागात् पवनञ्जयः । श्रुत्वा प्रियागमनादिवृत्तान्तं श्वशुरौकसि गतः पवनञ्जयः । ततस्तां तत्राप्यवीक्ष्य वनाहनं बभ्राम । पवनञ्जयः शोकाकुलः तां न प्रियामपश्यत् । पवनञ्जयो मित्रं प्रहसितं प्रेक्ष्य नतिपूर्वं निजमृतिकरणवरूपं ज्ञापयामास । सोऽपि नतिपूर्व प्रल्हादाय । प्रल्हादोऽथ पुत्रस्य स्वरूपं तच्छ्रुत्वा दुःखितस्तत्क्षणादेवोत्थाय विद्याधरैः सह अञ्जनासुन्दरी वीक्षितुं चचाल ।
।
Jain Education
a
l
For Private & Personel Use Only
S
inelibrary.org