SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Nञ्जनासुन्दरी पवनञ्जयाय दत्ता महोत्सवपूर्वकं । केनाप्यवलेपेन स पवनञ्जयः (गृहीतः) तां सतीधुरंधरां मनसाऽपि पवनञ्जयो न सम्भावयामास। कायस्पर्शविषये किं कथ्यते । ततोऽञ्जनासुन्दरी दुःखेन कालमवाहयत्।इतो रावणस्य | दूतः प्रल्हादस्य पार्श्वेऽभ्येत्य प्राह-यादोनाथं जेतुं रावणो गमिष्यति।तेन त्वामाकारयति तत्र।ततः पवनञ्जयो रावणपार्श्वे गन्तुकामो मातरं नन्तुं गतः। तत्र मातरं नमन् भक्त्या प्रियामप्यपश्यत् । कांतां पादनतामप्यवज्ञाय पवनञ्जयः ससैन्यो व्योममार्गेण सरसीतीरे गत्वोवास रात्रौ । तत्र तां वियोगार्तचक्रवाकी चक्रवाकवियुक्तां रुदतीं वीक्ष्य पवनञ्जयः खां प्रियां सस्मार । तदैव मित्रेण प्रहसितेन सह तत्र गत्वा कामविह्वलामञ्जनासुन्दरी भोगदानेन | सुखिनी चकार । प्रातः पतिर्गच्छन्नञ्जनसुन्दर्योक्तः त्वमद्यात्रागतोऽसि । मम गर्भो ववृधे । अथ निजां मुद्राम-ला भिज्ञाननिमित्तं तस्यै च दत्त्वा प्राह-मा भैषीस्त्वं । अहं वैरिणं जित्वा यावत्पश्चादायामि तावत् सुखं तिष्ठ ।। ततः पवनञ्जयः शिबिरे गतः। पवनञ्जयश्वचालाग्रतः । इतस्तस्या गर्भो ववृधे । अथाऽञ्जनासुन्दरी सगी । दृष्ट्वा श्वश्रूः साधिक्षेपमदोऽवदत् । हे हले ! किमिदमुदरवृद्धिखरूपं कुलकलङ्ककारि कृतं त्वया देशान्तरगते पत्यौ । ततो रुदती अञ्जना पतिदत्तां मुद्रिका दर्शयन्ती तस्यै पतिप्राप्तिसमुत्पन्नगर्भखरूपं दर्शयामास । Jain Educat ional For Private Personal Use Only W ww .jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy