________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ ३१३ ॥
Jain Educatio
शर्मभिदुरमतिदुरन्तमेव तत् । न क्षीयते भवशतैरपि देहभृतां खलु ॥ १ ॥ इति गुरोर्मुखादाकर्ण्य ऋषिदत्ता जातिस्मृतिं प्राप्य च पश्चाद्भवं सर्वमैक्षत । तदाकर्ण्य भूपालोऽपि विशेषतो वैराग्यवासितमनाः साक्षाद्गुरुं दीक्षामयाचत । ऋषिदत्ताऽपि वैराग्यवती गुरुमजिज्ञपत् । एतदेव पुरा कर्म्म, मयाऽऽत्तं पृथुवेपथु ॥ १ ॥ अहमपि दीक्षां जिघृक्षुरस्मि । ततो गुरुरुवाच । विलम्बो न युज्यते । असारेऽमुत्र संसारे सारेयं हि तपः क्रिया ।। अथ तौ दम्पती खं पुत्रं सिंहरथं राज्येऽभिषिच्य दीक्षां जगृहतुः । तत्र श्रीशीतलतीर्थेशजन्मपवित्रीकृते तपश्चक्राते । - " तपोहुताशे किल कर्मजालं, पलालपूलप्रतिमं विधाय । अवापतुस्तत्र पुरे गरीयः, सत्केवलज्ञानमतिप्रकाशम् ! ॥ १ ॥” इति ऋषिदुत्ताकथा समाप्ता ॥ १२ ॥
पद्मावतीकथा तु उदयनभूपकथायां ज्ञातव्या ॥ १३ ॥
शुद्धशीलप्रभावेण लब्धामप्यापदं भृशम् । अञ्जना सुन्दरीवेह, लङ्घयन्ति जनाः क्षणात् ॥ १ ॥ आदित्यनगरे प्रह्लादनभूपो विद्याभृत् । केतुमती प्रिया । तत्कुक्षिसमुद्भूतः पवनञ्जयो नाम सुतो । बहूवीर्विद्याः साधयामास । माहेन्द्रपुरे महेन्द्रराजाऽभूत् । हृदयसुन्दरी प्रिया । अञ्जनासुन्दरी पुत्री । वर्द्धमाना क्रमात् प्राप्तयौवना
tional
For Private & Personal Use Only
ऋषिदत्ताचरित्रम् |
॥ ३१३ ॥
jainelibrary.org