________________
जायत । ततो गुरुरुवाच-गङ्गापुरं पुरं भारतखण्डभूषणमासीत् । तत्र गङ्गदत्तभूपो भूरिविक्रमोऽभवत् । तस्य प्रिया गङ्गाऽभूत् । क्रमाच तयोः पुत्री गङ्गसेनाऽजनि । सा क्रमाच्छीलशालिनी बभूव । तत्रैवासीत् पुरे चन्द्रयशाः साध्वी । तस्याः पार्थे धर्म प्रपेदे गङ्गसेना। ततो व्रतं गृहीत्वा जगदेकसहोदरे धर्मेऽभवत्तस्या मतिः। तदा तस्याश्चन्द्रयशसः प्रवर्तिन्याः पदान्तिके निःसङ्गयतिनी निःसङ्गाभिधां तापसी तीव्रतरं तपः तपस्यंती नमस्यन्ती जिनान् स्तोत्रपरां वीक्ष्य तां निःसङ्गां यतिनी अपरसाध्वीभिर्वर्ण्यमानां गङ्गसेना न सहते। तदा गङ्गसेना जगादेति । यदियं दम्भिनी सङ्गा, तपस्यति दिवा तपः। राक्षसीव पुना रात्रौ, ग्रसते मृतकामिषम् ॥१॥ अभ्याख्यानमिदं साक्षात्, प्रशमामृतदीर्घिका । तितिक्षामास साऽसङ्गा, भवभङ्गाभिधावती ॥ २ ॥ वत्सेऽतुच्छस्त्वया । कर्मबन्धः शमनिषूदनः। उपायंत पुनर्मिथ्यादुष्कृतादानतस्ततः ॥ ३॥ तत्कर्मानालोच्य तद्विपाकवशाद् भ्रान्त्वा भवं बहुं गङ्गसेना गङ्गापुरे राजसुताऽभवत् । तत्र श्रीमुनिसुव्रतजिनसेवया विकटं तपः कुर्वाणा मृता
सुता कपटपापवशात् पर्यन्ते पापमनालोच्येशानेन्द्रकलत्रता प्राप सा । ततश्युता हरिषेणमहीपतेः प्रीतिमतीकुभरते.५३ |क्षिभवा ऋषिदत्ता सा त्वमभूः । प्राचीनकर्मपरमाणुमहोदयेन भद्रे ! तवाभवदयं विपुलः कलङ्कः । दुष्कर्म |
Join Education
UPIEnelibrary.org
For Private Personel Use Only
In