SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वरवृत्तिः॥ " कुमार चरित्रम्। पश्चात् सभायां समेत्य कृष्णं तत्रोपविष्टं च दृष्ट्वा जगाद-रूपद्वयकरणात्त्वयाऽहं कथं प्रेषितः वधूरपि हेपिता श्रीप्रद्युम्नच। कृष्णोऽवग् शपथपूर्व-नाहमद्य रुक्मिण्या गृहेऽगाम् । एतत् श्रुत्वा सत्यभामाऽपि जगौ कृष्णाग्रे-तवैव सर्वत्र all माया विद्यते । ततो विलक्षे जाते रुक्मिण्यां च पुत्रानागमनतो दुःखं कुर्वत्यां नारदोऽभ्येत्य पृथक् पृथम् । द्वयोरग्रे जगादेति । येनात्र विहितं कृष्ण-रूपं मुनिरूपमेव च ।स एव भवतोः पुत्रः, प्रद्युम्नोऽनल्पलब्धिमान् ॥१॥ इतोऽभ्येत्य द्रुतं माता-पित्रोश्चरणयोर्मूलम् (योः पदौ)। नत्वा प्रद्युम्न आचष्टे, युवयोरहमङ्गजः॥२॥ततः कृताञ्जलिः प्रद्युम्नः प्राह-अहं यावत् किमपि चमत्कारं मातापित्रोः स्वजनानां च पुरतो न दर्शयिष्यामि तावद्युवाभ्यां न कस्याप्यग्रे मत्स्वरूपं वक्तव्यम् । माता तदा सस्नेहं पुत्रमालिङ्गय पुत्रं प्रति प्राह-अहं त्वदागमं कस्याप्यो न कथयिष्यामि, कृष्णोऽप्येवं प्राह तदा, ततो रुक्मिणी रथारूढां कृत्वा प्रद्युम्नोऽचलत् , ततः प्रद्युम्नः शङ्ख पूरयन् सर्वान् यादवादिजनान् क्षोभयामास, जजल्प चेति-हरामि रुक्मिणीमेष, कृष्णो रक्षतु चेद् बलम् । अहमेव समर्थोऽस्मि, भक्तुं वैरिबलं समम् ॥ १॥ शोषयामि पयोराशिं, पिबामि ज्वलनं मुखे । धरामि भुजगं ॥ हस्ते, वालयामि कुलाचलान् ॥ २ ॥ हस्ताग्रे पृथिवीं कुर्वे, दोभ्या॑ तरामि सागरम् । एकोऽहं सकलं कृष्ण-10 । ॥१८७॥ Jain Educa t ional For Private & Personal Use Only ONrjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy