________________
पेया दत्ता । तां पेयां पीत्वा कृष्णस्य सम्बन्धिनमेकं मोदकं मुनिर्याचते स्म । रुक्मिणी प्राह-कृष्णस्यैते मोदकाः, अन्यस्य न दीयन्ते । स मुनि गौ-मोदकमेकं मह्यं देहि । तपखिनां किं दुर्जरं भवति ?, ततः सा
रुक्मिणी सशङ्का एकैकं मोदकं दत्ते। स च मोदकान् खादं खादं मोदकान् पुनः पुनर्याचते स्म । एवं मोदकान् IN भक्षयन्तं पुनः पुनर्वीक्ष्य रुक्मिणी जगौ-मुने! त्वमतीव बलवानसि, यदेतैर्मोदकैर्न ध्रातः। इतः सत्यभामाया मत्रं
जपन्त्या अग्रेऽभ्येत्य नराः प्रोचुः-विपिनं केनचिन्नरेण देवेन दानवेन वा शुष्कं कृतं, जलं च सर्व पीतं, तृणादि सर्व भक्षितं च, भानुकुमारोऽश्वात् पातितः, तेनाधुना हसन्ति लोकाः, कन्या चापहृता, ततोऽपि विषण्णा सामर्षा सत्यभामा केशानयनहेतवे दासीः पटलिकाहस्ताःप्राहिणोद्रुक्मिण्या गृहे। तासां दासीनामेव N केशैर्मायासाधुः पटलिकाः पूरयामास । दास्यो न जानन्ति स्वमस्तकभद्रीकरणम्, ता एव तादृशीर्मुण्डितमस्तकाः पश्चात् प्रेषयामास प्रद्युम्नः । तास्तादृशीर्दासीः समायाता दृष्टा खिन्ना सती भामा प्रतिभुवं कृष्णं प्रति
प्राह-रुक्मिण्याः पार्थात् मस्तककेशान् दापय । कृष्णोऽवग्-त्वमेवं मुण्डाऽसि कथं ?, सत्यभामा जगौ-हास्येन ३२ । सृतम् । ततः कृष्णेन प्रेषितो रामः केशानयना) रुक्मिणीगृहे, प्रद्युम्नं विहितकृष्णरूपं प्रेक्ष्य लज्जितो रामः,
Jain Educati
o nal
For Private Personal Use Only
w.jainelibrary.org