________________
चरित्रमा
॥३१॥
॥ श्रीभरते- ऋषिदत्तायाः, पुरः स्फुरति रुक्मिणी ॥ १॥ स्थाने तदस्य भूपालसूनोराग्रहसङ्ग्रहः । को नाम म्रियते नास्याः,
ऋषिदत्ताश्वरवृत्तौ । कृतेऽतिमधुराकृतेः ? ॥ २॥ कुमारोऽपि बहोः कालादागतां दृष्ट्वा रूपलावण्यामृतपूर्णशरीरां भृशं नेत्रपुटैः पपौ। २विभागे
| ऋषिदत्तापि नीरङ्गीदलोत्सङ्गीकृतानना आलुलोके तं पतिं प्रेम्णा । तदा निजजामातुर्जीवातुं तां कन्यां पुरःस्थितां। al दृष्ट्वा राजापि प्रमोदवशगोऽभवत् ! । ततो राजा जामातरं तया कन्यया सह कुञ्जरारूढं कृत्वा समहोत्सवं सौधमानिनाय । गौरवात्तामृषिदत्तां वस्त्राभरणदानादिभिः सच्चकार । सुलसायोगिनीकृतं ज्ञात्वा राजा तस्यां रुष्टोऽभूत् ।। सुलसां तु महीनाथः, पापिनीं तामपापधीः। भ्रामयित्वा पुरे पौरैर्निन्द्यमानामनारतम् ॥१॥ मुष्टियष्टयादिभिर्लोकः, कुट्टयमाना पदे पदे । गर्दभारोहितां वाद्यमानकाहलडिण्डिमाम् ॥ २ ॥ विलूनकर्णयुगलनासिकां निरवासयत् । अवध्या हि सतामेते, नारीगोद्विजलिङ्गिनः॥ ३॥ त्रिभिर्विशेषकम् । ततः खां नन्दिनीं भूपो रहसि नीत्वाला निरभर्ल्सयदत्यन्तरूक्षाक्षरकिरा गिरा । कुमारोऽपि कियत्कालं सहैव ऋषिदत्तया विषयसुखं भुञ्जानस्तत्र तस्थौ। अन्यदा च प्रियामूचे तामुत्सङ्गनिषेदुषीं। साश्रुनेत्रः कुमारः प्राह-प्रिये! सर्वं भव्यं तव मिलनादभूत् । परं मम मित्रं परं गतं विधेः पार्श्वे पश्चान्नागतं तद् दुनोति मामत्यन्तम् । परार्थकर्मठेनाद्य, मठेन
॥ ३११॥
Jain Educati
o
nal
For Private & Personel Use Only
Tenjainelibrary.org