________________
द्रष्टुं त्वया सह तत्रागमिष्यामि । ततो मुनिर्जगाद-यद्यन्मयोच्यते तत्त्वया कर्तव्यमेव ? । भूपनन्दनः प्राह-भो मुने ! त्वं यज्जल्पसि तन्मया कर्तव्यमेव । भूपसुतोऽपि तं प्राह-किं विलम्बस्त्वया क्रियते ?, तया प्रियया विना मम प्राणाः परलोकाय प्रयाणं करिष्यन्ति । मुनिःप्राह-भो कुमार ! सावधानीभूय तिष्ठ त्वम्। तवाधुना प्रिया यत्र । मत्रशक्त्या पुनस्तत्र यास्यामि । जयजयेतिनिनादपूर्व प्रादुष्करिष्यामि । इत्युक्त्वा मुनिर्नेपथ्यान्तरमाविशत् ।। तत्रस्थो मुनिः प्राहेति-भविताऽहो मुनेः कर्म, समीचीनमिदं यदि । अहमेव तदा धन्यः, पुण्यवानिह भूतले ॥१॥ प्रभविष्णुः प्रभावोऽत्र, सतीनां च सतामपि । भूयादिति महीनाथे, सनाथे हृदि चिन्तया ॥२॥ द्रष्टव्याऽद्य मया । दिष्टया, दृष्टया सञ्जीवनौषधीः । सा प्रियेत्युत्सुकखान्ते, त्वयि भूपसुते सति ॥ ३ ॥ परोलक्षेषु निस्पन्दमानमालोचनपक्ष्मसु । पश्यत्सु पुरलोकेषु, मालिताट्टालपतिषु ॥ ४॥ यक्षकिन्नरगन्धर्वस्वर्वासिषु नभोऽङ्गणे || IN स्थितेषु कौतुकात् पाणिधृतमाल्येषु सादरम् ॥ ५॥ विहाय सममौषध्या, मणिना मुनिनन्दिनी । प्रादुरास
पुरीमध्यादब्धेरिव रमा ततः ॥६॥ पद्धिः कुलकम् । तदा तस्याः शिरसि पुष्पवृष्टिं त्रिदशावलिय॑धात् । तदा तां रूपसंपत्तिविजितामरसुन्दरीं दृष्ट्वा हृष्टो जनसमूह उवाच-चामीकरस्य पुरतो, यादृशी किल पित्तला ।तादृशी
Jan Education
For Private
Personel Use Only
setorary.org