________________
॥ श्रीभरतेश्वरवृत्तौ १२ विभागे
॥ ३०९ ॥
Jain Educatio
"मोदन्ते कुमुदानीन्दौ, कमलानि तु भास्करे । अभीष्टे वीक्षिते ह्येवं, प्रमोदो जायते नृणाम् ! ॥ १ ॥ ततो मुनिं प्रति सोपरोधमिति क्षोणीपतिपुत्रो जगाद - अग्रे समस्ति गन्तव्यं, मुने ! यामि कथं ? यतः । त्वत्प्रीतिशृङ्खलाबद्धं, मनो मे गमनाक्षमम् ॥ १ ॥ ततो मया समं तत्रागच्छ । पश्चात् समागच्छताऽत्र स्थेयम् । अथ प्राह मुनि:| मैवं वद कुमार ! | यतः - " संयमिनो व्रतं देव !, दूष्यते राजसङ्गतेः । तेनैकान्ते स्थितैः साधुवरैर्ध्येयं परं महः ॥ १ ॥” ततो भूपेनोक्तं- त्वादृशाः पुरुषा अपि किं कुर्वते प्रार्थनाभङ्गम् ? | अमात्या अपि जगदुः- भो मुने ! यथा तथा अस्य कुमारस्य वचो मन्यते यदि तदा वरम् । ततो मुनिनोक्तम् - एवं भवतु । ततः सन्ध्यायां धर्म्मकृत्यानि कृत्वा स्थितौ तावेकत्र । अथ प्रातः प्रयाणकं कुमारश्चकार । ततश्चलन्कुमारः काबेरीं पुरीं ययौ । सुन्दरपाणिभूपः सम्मुखं समागात् । निष्पादितत लिकातोरणां पुरं काबेरीं कुमारं प्रावेशयन्नृपः । विवाहसज्जितं सदनं कुमारोऽलं| चकार । अथ ज्योतिर्विदादिष्टे वासरे च कुमारस्तां कन्यां पर्यणैषीत् । ततस्तं भूपः कतिपयदिनानि तत्रास्थापयत् । अन्यदा रुक्मिणी जगाद - स्वामिन् ! या तव पूर्वमृषिदत्ता तपखिनी प्रिया जाता सा कीदृशी ? । तया च तव मनो हृतं श्रुतम् । जगाद मेदिनीशसूनुः साश्रुलोचनः - शुभे ! तस्यास्तुल्या स्त्री कापि काऽपि न दृश्यते । ।
tional
For Private & Personal Use Only
ऋषिदत्ताचरित्रम् |
॥ ३०९ ॥
jainelibrary.org