________________
शान, जायते प्रियसङ्गमः । प्रायः प्रियवियोगाय, प्राणिनां पापसञ्चयः ! ॥ २ ॥” अथ पूर्वमिदं चैत्यं मम प्रिया-IN
सङ्गमायाभूत् । अधुनापि किं प्रियासङ्गमाय स्यात् । इति ध्यायतस्तस्य कुमारस्य ऋषिदत्तामुनिवरः पुष्पकरण्डकयुक्तस्तत्र देवं नन्तुं समागात् । कुमारोऽपि करात्तस्य पुष्पमालां ललौ । दृशाऽपश्यत् सञ्जातप्रियाभ्रमः विशा
लया स च ऋषिदत्तामुनिम् । साऽपि दध्याविदम्-रुक्मिणी परिणेतुं किं प्रस्थितोऽयं मम प्रियः ? । कुमारोऽपि N मुनि नत्वा तं सादरमाहूय स्फारासने उपवेशयामास । मुनिर्भोजितः परिधापितश्च स राज्ञा । अथ कुमारस्तं
मुनिं प्रति प्राह-मदीयनयनाम्भोजभास्करप्रतिम ! प्रभो!। निवेदय वनेऽमुष्मिन् , कदाऽयासीः ? कुतस्तथा ? ॥१॥
उवाच मुनिः-आसीदत्राश्रमे हरिषेणमुनिः। तस्य चैकः पालितपुत्रोऽभूत् । पुत्री च ऋषिदत्तावा विनयान्विता । शकुमार ! तां परिणीय कोऽपि नृपः स्वस्थाने गतः। हरिषेणमुनिः पूर्व वहिप्रवेशात्स्वर्ग जगाम । अहमपि क्षोणीं।
भ्रामं भ्रामं श्रीनाभेयसेवायै अत्रागमम् । अत्र मम तिष्ठतः पञ्चसंवत्सरी जाता । परमथ तव भाग्यवतो दर्शनान्मम जन्म फलेग्रहिरभूत् । अथ सानन्दो भूपपुत्रस्तं प्रति प्राह-मुने ! त्वां पश्यतो मम दृष्टिः कथं तृप्ति न याति ?। मुनिः प्राह-कोऽपि कस्यापि वल्लभ इहलोके स्याद् , अथवा प्राग्भवसम्बन्धात्प्रमोदो भवति! । यतः
JainEducation
For Private
Personal Use Only
Mainelibrary.org