________________
॥ श्रीभरते. श्वरवृत्ती
२ विभागे
॥ ३०८॥
रुक्मिणी ज्ञापयामास । ततो रुक्मिणी पितुः पुरः प्राह-मां कनकरथेन सह परिणायय । ततः काबेरीपतिः ऋषिदत्ता--
चरित्रम्। सुन्दरपाणिभूपो ज्ञापयति। मत्पुत्री रुक्मिणी त्वत्पुत्रेऽनुरक्ताऽस्ति इत्यादि शिक्षयित्वा दूतं प्रास्थापयत् कनकरथं । प्रति । सोऽपि दूतो गत्वा तत्र रथमर्दनभूपालमभ्यधात्-भवन्तं प्रति काबेरीपतिः सुन्दरपाणिभूपो ज्ञापयतिमत्पुत्री रुक्मिणी त्वत्पुत्रेऽनुरक्ताऽस्ति । तेन त्वं खं पुत्रमत्र तां कन्यां परिणेतुं प्रेषय। दतवाणीं श्रत्वा क्षोणी-1 पतिर्निजाङजं दुःखितं प्राह रहसि-किमेवं नित्यशोऽतुच्छं. वत्स! चेतसि ताम्यसि । किं तथा(त्वयाऽश्रावि नैवं यत् , कृतं कर्म न दूषयेत् ! ॥१॥ तत्त्वं वत्स ! सत्वरं काबेरीपतिपुत्री परिणेतुं चल । अनिच्छन्नपि पितृवचनं । स पुत्रो मन्यते स्म । अथ शुभेऽहनि रुक्मिणी परिणेतुं चचाल कनकरथः।क्रमात चलन कनकरथकुमार ऋषिदत्तालङ्कृतं वनं ययौ । वनं पूर्वदृष्टमालोक्य च स गुणैकभूः कुमारो बाष्पक्लिन्नविलोचनश्चिन्तयामास-तदेव वनं यत्र मया ऋषिदत्ता कन्या परिणीता । यद्वनं पूर्व हर्षायाभूत् तदधुना मम दुःखायाजनि। एवं ध्यात्वा कुमारो ॥ ३०८ ॥ जिनसद्मनि जिनेन्द्रं नन्तुं गतः । तदाऽकस्मात्तस्य दक्षिणं चक्षुः पस्पन्द । ततो दध्यौ कुमारः-मम स्फुरदिदं चक्षुः, प्रियासङ्गमसूचकम् । सा तु दैवहता कास्ते?, तदिदं किल निष्फलम् ॥१॥ यतः-"विना धर्म विशुद्धं ।
Jain Educa
t ional
For Private & Personel Use Only
Shrijainelibrary.org