________________
॥ श्रीभरते श्वरवृत्ती २ विभागे
॥३०७॥
न जाने । ततो राज्ञा रुष्टेन दण्डपाशिकानां मारणाय विश्राणिता । प्रोक्तं च-एषा राक्षसी विद्यते । भवद्भिः । ऋषिदत्तासयत्नैः स्थातव्यम् । ते भ्रामयित्वा पुरमध्ये तामृषिदत्तां श्मशानभुवि गता दण्डपाशिकाः। पौरेषु रुदत्सु दूर
चरित्रम् । वने नीता ऋषिदत्ता तैः । एतस्मिन्नेवावसरे भानुरस्तं गतः। तामृषिदत्तां ते राजपुरुषाः क्रूराशयाः श्मशानभूमौ निशि निन्युः । ततस्तत्र तां यावद्धन्तुं लग्ना असिपाणयः पुरुषाः तदा ऋषिदत्वा मूञ्छिता भूमौ पपात, निश्चेष्टा चाभूत् । मृतां तां मत्वा ते राजपुरुषाः पश्चादाययुः। साऽपि वातैः स्वस्थीकृता खयं पूर्वकृतं कर्म ममेदानीमागतमिति ध्यायन्ती बिभ्यती च वने बभ्राम । भ्रमन्तीति जल्पति च-ताताहं कथं तदा त्वया मृगीव गच्छता मुक्ता ?। दध्यौ चेत्थम्-संसारे जीव! भवता, पापं किं दुष्कृतं पुरा ?। निरागसोऽपि यदयं, कलङ्को हि || ममाभवत् ! ॥१॥रे विधे! यदि त्वया ममेदृशो मुधा कलको दत्तस्तर्हि मम पतिः स कथं मया विना भविष्यति ? || अथवा रे भर्तः!अत्रागच्छ।रे जीव ! खं कृतं कर्म त्वं सहख । यतः-हसन्तोः । इति चिरं विलप्य स्वस्थी-1 ॥ ३०७॥ भय ऋषिदत्ता चचालाग्रतः। भ्रमन्ती ऋषिदत्ता क्रमात पितराश्रमं गता। ततो यत्र पिता भस्मीभूतस्तत्रागता ।। तत्रेति भृशं गाढखरं रुरोद ऋषिदत्ता-हा तात ! दुहितेयं तेऽनवधिदुःखसेवधिः। कासि त्वमेहि मे देहि,
Jain Education a
nal
For Private & Personal Use Only
jainelibrary.org