________________
IN तस्याश्चेष्टितमिदम् । यदि राजा न मन्यते तदा छन्नं स्थित्वा रात्रौ विलोकयतु । विलोकयिष्यामि इति राज्ञा
प्रोक्ते योगिनी स्वस्थाने गता । इतः कुमारो राज्ञः पार्श्वस्थो दध्यौ-अथ यदि मत्प्रियाया दोषः प्रकटीभविष्यति तदा किं क्रियते मया ? । राज्ञोक्तं-पुत्र! त्वमत्र तिष्ठ । तव पत्न्याश्चेष्टितं विलोकयिष्यते । कुमारो दध्यौ-एकतः पितुरादेशलङ्घनं युज्यते न मे । अन्यतो दयितादुःखमितो व्याघ्र इतस्तटी ॥ १॥ ततो राज्ञा स्वसेवका ऋषिदत्तागृहपार्श्वे छन्नं मुक्ताः। तदा सुलसा तेषु (अ) पश्यत्सु मांसपिण्डकरा ऋषिदत्तागृहे | गता । तत्र तस्याः सुप्ताया मुखं रक्तारक्तं कृत्वा मांसं च मुक्त्वा स्वस्थानं गता। ततो राजानुगैरुक्तं भूपाग्रे ।
ऋषिदत्ताचेष्टितमिदम् । ततो राजा पुत्र निर्भर्त्सयामासेति-अरे! जानन्नपि क्रूरां, राक्षसीचरितामिमाम् । कुला||ङ्गार दुराचार !, पाप पालयसे कथम् ? ॥१॥ याहि याहि दृशोरग्रं, त्यज मे राक्षसीपते ! । त्वया कलङ्कितमिदं,
शशाङ्कधवलं कुलम् ॥ २ ॥ तदा कुमारोऽपि कृताञ्जलिः प्राह-सर्वमिदं मिथ्या । भवतः स्नुषा निर्दोषाऽस्ति ।।
| तेन मयि मा कुप्य। किन्तु प्रसीद !। ततो रुष्टो राजाऽवग्-यत् प्रत्यक्षेण दृष्टं तन्मन्यते मया । स्वयं तत्र गत्वा भरते.५२ |निमालय । तथाविधां प्रियां दृष्ट्वा कुमारोऽवग-भो प्रिये! किं ते दुश्चेष्टितमिदं दृश्यते ? । तयोचे-अहं किमपि
Jain Education
For Private
Personal Use Only
nelibrary.org