SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ यस्य दयितेयमजायत ॥ १ ॥ तया योगिन्या तदा ऋषिदत्ताया मुखं शोणितविलिप्तं कृतम् । उपधानपदे च |पलं न्यस्तमृषिदत्तायाः । ततोऽवखापिनीं हत्वा स्वस्थानके गता योगिनी । मारितमेकं नरं दृष्ट्वा परिजनः कल| कलं चकार । कुमारस्तदा जजागार । प्रियाया वक्रं शोणितलिप्तं उपधाने च पलं वीक्ष्य कुमारश्चकितः सन्निति | दध्यौ । इतो लोकैर्विज्ञप्तं - केन पुरुषेण वा स्त्रिया अस्मदीय एकः पुरुषो भक्षितोऽस्ति । त्वं तु प्रजापतिर्न्यायी | तेन त्वं निगृहाण । ततो राजा जगौ - कोऽपि पुरमध्ये राक्षसो राक्षसी वा यो भविष्यति स कर्षयिष्यते । विलोकयतु सर्वत्र । इतः कुमारो दध्यौ - मत्प्रिया किं राक्षसी विद्यते ? | मारितः श्रूयते कश्चिदमुत्र पुनरीदृशः । राक्षसीयं हहा प्राणवल्लभा तु कथं मम ! ॥ १ ॥ रूपसम्पदः पापाय, यदत्र श्रूयते श्रुतौ । हा धातः किमिदं तात !, विपरीतमजायत ॥ २ ॥ अनल्पान् सङ्कल्पानिति ध्यायन् कुमारः प्राह - भो प्रिये ! जागृहि । ततः सुप्तोत्थितां | प्रियां तामाचष्ट कुमारः - पृच्छामि भवतीं किञ्चित्, गोपायसि न चेतसि । नहि स्त्री चामुनापि त्वं, प्रिये ! किमसि राक्षसी ? ॥ १ ॥ सा भीता जगौ - देव ! किमेवं त्वं मयि जल्पसि । कुमारः प्राह - मुखं रक्तं तव दृश्यते, उपधाने । तु पलमस्ति । तेनाहं जानामि त्वया कोऽपि ना हतोऽस्ति । अन्यथा मुखमीदृक्षं कथं ते दृश्यते ? । इति पत्युर्वचः Jain Educatiational For Private & Personal Use Only www.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy