________________
॥ श्रीभरतेश्वरवृत्तौ २ विभागे
॥ ३०५ ॥
Jain Education
गतः ॥ १ ॥ अयं हि ते पिता कामं, कृतराज्यव्रतत्रतः । न शोच्यः किं भवेत् शोच्यः ?, प्रिये ! पूषाऽस्तमीयिवान् ॥ २ ॥ इत्थं प्रियां प्रबोध्य कनकरथ ऋषिदत्तां लात्वा चचाल खपुरं प्रति । अखण्डितप्रयाणोऽथ कुमारः खपुरे | समागात् । पित्रा प्रवेश्य महोत्सवः कारितः । सवधूककुमारो मातापितृचरणद्वयीं ननाम । तावपि पितरौ सविनयां वधूं दृष्ट्वा दृष्टौ । कैलाससोदरे सदने स्थिता ऋषिदत्ता पत्या सह भोगान् भुङ्क्ते स्म । इतश्वाश्रावि कावेरीपुरी - स्वामिना सुन्दरपाणिना नृपेण - कुमारेण वर्त्मनि ऋषिदत्ता परिणीता । सापि वार्ता रुक्मिण्या श्रुता । ततो रुक्मिणी कुमाराकांक्षिणी तस्या योगिन्या भक्तिं कुरुते भोजनाच्छादनदानेन । योगिन्योक्तं यत् तव कार्यं । भविष्यति तन्निवेदय । तयोक्तं-त्वं विद्यया तथा कुरु यथा ऋषिदत्तायाः कलङ्को भवति । कनकरथः कुमारोऽ| त्रायाति । तयोक्तं- तथा करिष्यामि यथा स्वयमेव कनकरथकुमारोऽत्र समायाति । ततो रुक्मिणीप्रेषिता योगिनी | रथमर्दनपुरं प्राप कुमारदयिताया अभाग्यात् । इत आदित्योऽस्तं गतः । उदियाय सर्वतस्तमः प्रसरः चन्द्रश्च । पूर्वाचलचूलायां समागात् । दत्त्वाऽवस्वापिनीं तत्र जनमेकं निहत्य च सा योगिनी कुमारचतुःशालं ययौ । ऋषिदत्तां कुमारसमीपे सुखशायिनीं दृष्ट्वा दध्याविति - अहो रूपमहो दीप्तिरेतस्या मृगचक्षुषः । अयं तु पुण्यवान्
1
For Private & Personal Use Only
ऋषिदत्ताचरित्रम् |
॥ ३०५ ॥
inelibrary.org