SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ वृद्धत्वात् पावके प्रवेष्टुमिच्छामि । यतो जीवितान्मरणं श्रेयो मादृशां जरतां जनानाम् । कुमारोऽपि मुनीश्वरपादयोर्निपत्य प्राह-अलं वह्रियोगात् प्राणपरित्यागेन। दुर्गतिहेतुत्वात् । इतः रुदती ऋषिदत्ताऽपि योजयित्वा | करद्वयीं पितरं प्रति प्राह-यदयं तात ! जामाता, भवतां यदि जल्पति । तद्यूयं प्रतिपद्यध्वं, विधाय करुणां मयि॥१॥ सुप्रसन्नो मुनिः सुतां प्रत्येवं प्राह-शोकेनानेनालं वत्से ! तव। परं शिक्षावचोऽस्माकमिदं वचन मा मुञ्च । शुश्रूषेथा। गुरून शीलं, पालयेथाः पतिव्रते!। सपत्नीष्वपि मा कोपीः, कोपयन्तीष्वपि ध्रुवम् ॥ १॥ विधुः संतप्यते कचिद् I ग्रस्यमानोऽपि राहुणा।मा भूः सुखे च दुःखे च, वत्से! धर्मपराङ्मुखी। धर्म एव हि जन्तूनां, पिता माता सुता प्रभुः ॥१॥अहं तु वृद्धोऽभूवं । शरीरे तीव्रवेदनाऽस्ति । तेनाहं द्रुतं मरणं साधयिष्यामि। अग्निं विना तन्न भवति । एवमाप-- च्छ्य भूपपुत्रं पुत्रीं च पञ्चपरमेष्ठिपरायणो मुनिरन्तर्विवेशाग्नौ। ततो जगतीपीठे विलुठ्य च भूय ऋषिदत्ता विलापानकरोदिति । हा तात ! तात !! निःसीमापत्यवात्सल्यतत्पर!। अथाहं त्वदृते शोच्या, गतमूलेव कन्दली ॥१॥ दृष्टाऽपि न मया माता, तात! माताऽपि मे भवान् । तदभावोऽपि जायेत, भुवि हाऽस्ते गते त्वयि ॥ २ ॥ रुदतीं पत्नी प्रबोधयन्निति भूपः प्राह-तिष्ठ तिष्ठ प्रिये ! माऽश्रुपातमत्यन्तमातनु । केवलं ते कृते दुःखे, परलोकपथं For Private S Jain Education Personal Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy