________________
॥ श्रीभरतेभ्वरवृत्तौ
१२ विभागे
॥ ३०४ ॥
तदा प्रसवरोगेण प्रीतिमती मृता । ततः पिता तामृषिदत्तां पालयामास । अष्टवार्षिका जाता ऋषिदत्ता । ममेयं | पुत्री ऋषिदत्ता । इमां रूपवतीं दृष्ट्वा वनेचरा हरिष्यन्ति । इति सञ्चिन्त्य जनकोऽस्या अहमदृश्यकरणमञ्जनं चकार । तेनाञ्जनयोगात् कदाचिदियं दृश्या भवति कदाचिददृश्या भवति । सोऽहमस्याः पिता । इयं मम पुत्री ऋषिदत्ता । अलक्ष्याऽपि कानने भ्रमन्ती तव स्वं दर्शनं ददौ । कुमारस्तां दृष्ट्वा रागवानभूत् । - कुमारातिथये तुभ्यमातिथ्यमियमङ्गजा । अस्तु मे भरतायैव, चक्रिणे विनमेः सुता ॥ १ ॥ एतच्छ्रुत्वा ऋषिदत्ता लज्जया - | धोमुखी जाता । - कुमारस्तु समानीय, पाणी वाणीमिमां जगौ । यदादिशन्ति पूज्यास्तत्, प्रतिपन्नं मया खलु ॥ १ ॥ अत्रान्तरे जगौ बन्दी - मुने! त्वमात्मसुतामस्मै दत्त्वा सुखी भव । ततस्तस्मै कुमाराय महोत्सवपुरस्सरं ऋषिदत्ता मुनिना दत्ता । तत्रैव सत्या ऋषिदत्तया सह भोगान् भुञ्जानस्य भूपस्य कियन्तो वासराः सुखसंभारभासुराः समजायन्त । अन्यदा मुनिर्गनदगिरा कुमारं प्रति प्राह- कुमार ! जगदाधार, प्रतिपन्नैकवत्सल । किम्बहु ब्रूमहे मैनामपमानपदं कृथाः ॥ १ ॥ इयं पुत्री मदीया काननवासत्वान्मुग्धाऽस्ति । तेनेयमेवंविधाऽपि न्यासीकृता त्वयि गुणवति । इयमपि गुणवती भविष्यति । यतः - मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् । किं चाहं
Jain Education International
For Private & Personal Use Only
ऋषिदत्ता - चरित्रम् ।
॥ ३०४ ॥
www.jainelibrary.org