SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Jain Education रोचिः कृतस्मे रपझेभ्यः साम्प्रतं स्फुटम् । निर्गत्य कमला इभ्यान् वृण्वते विहितादराः || २ || मङ्गलवचः श्रुत्वा कुमारस्तल्पमुज्झांचकार | प्रक्षाल्य वदनाम्भोजं, देवपूजां विधाय च । अवादयत् प्रयाणाय, ढक्कामथ नरेन्द्रभूः ॥ १ ॥ ढक्काशब्दं श्रुत्वा सर्वं सैन्यं चलनाय सज्जमभूत् । ततो निजैः कतिपयैः सवयोभिः समं चरनिर्देश्यमानं मार्गं नृपात्मजश्चचाल । अग्रेसरः कुमारस्य, प्लवमानः प्लवङ्गवत् । एकस्तारगिरा कश्चिदपाठीदिति मागधः ॥ १ ॥ व्योमश्रीकुचकुंकुमपङ्को दिनमुखतरुप्रवालभरः । तिमिरावदनादहनः प्रभवति भगवानयं भानुः ॥ २ ॥ तीरं | तारमनारतमटतस्तत्सङ्गमाशया सरसः । सङ्घटयति पतिरह्नाममुं दयितां चक्रवाकस्य ॥ ३ ॥ ततः क्रामन् | कुमारः सरसः समीपे गतः । तदुपान्तस्थवने भ्रमन् कनकरथकुमारस्तां नारीं दृष्टा विस्मित इति दध्यौ - एवंविधं स्त्रीरत्नं मर्त्यलोके न घटते । केन कारणेन खर्गात् समागता सुरी सम्भाव्यते । यतः - " कर्पूरपूरः किमहो, जायते लवणाकरे ? । जलपूर्णं सरः किं स्यान्मरुदेशे महत्तमम् ? ॥ १ ॥ तदानीं तत्र वधूरपि समागता । कुमारस्तु तामपश्यन् चैत्यमेकं कैलासाद्रिसोदरमपश्यत् । एतस्मिन् प्रासादे कदाचिद् गता स्यात्सा भामिनीति ध्यायंस्तत्र | गतः कुमारः । प्रासादमध्ये श्रीऋषभदेवमूर्त्तिं ददर्श । ततः शुचिर्भूपकुमारः प्रवरनीरेण प्रक्षाल्य पुष्पैः प्रभुमर्च For Private & Personal Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy