________________
श्रीमरतेश्वरवृत्ती २विभागे
विकलाकृते ! । आगतोऽयमसिः ग्रासं, चिकीस्त्वां भुजगो मम ॥१॥ एवं वदन् कुमारो युद्धं कुर्वन् क्षणाजी- ऋषिदत्ता
चरित्रम्। वग्राहं तं वैरिणं जग्राह । अथ दत्त्वा कतिपयानि प्रयाणानि स्वाज्ञां ग्राहयित्वा कुमारस्तं रिपुं पश्चात् प्रेषयामास स्वराज्ये । तदानीमुत्पन्नवैराग्यः वपुत्रं राज्येऽभिषिच्यारिदमनो राजा गुरुपार्श्वे दीक्षां लात्वा सर्व-1 क्षीणकर्मा मुक्तिमगात् । कनकरथकुमारोऽपि व्रजन्नेकामटवीं गतः । तत्र वरूथिनी नगरस्थित्या स्थापयामास कुमारः। सायाह्ने च तत्र समागत्य सभासीननृपात्मजं मुक्त्वा जलवीक्षायै गता नरास्तत्रैत्य प्रणेमुः । राजा जगौ-किं चिरेण यूयमागताः। ततस्ते प्रोचुः-तावद्भुतवनान्तरे तत्रैकां दोलाकेलिपरां स्वर्गिवधूतुल्यां नारी पश्यामः । यावद्वयं तत्र गतास्तावद्विद्युत्झात्कार इवालक्षितगतिः क्वापि तरुकुओ गता । ततो भृशं विलोकितापि तत्र सा न दृष्टा, अभाग्यवद्भिरिव सेवधिः । ततो वयं समागताः । इत्याकर्ण्य नृपश्चमत्कृतोऽभूत् ।। अत्रान्तरे सूर्योऽस्तं गतः । तहिसृज्य कुमारः सन्ध्यायां प्रतिक्रमणादिकृत्यं कृत्वा स्मृतपञ्चनमस्कारो हंसतूला- ३०१॥ युतायां शय्यायां सुप्त्वा रात्रीमनैषीत् । इतः प्रातर्मङ्गलपाठका जयजयाशिषं प्रयुञ्जाना उच्चैः प्रोचुर्भूपमुद्दिश्येति-शय्यां त्यज कुमारेन्द्र !, विभातेयं विभावरी। उदियाय रविर्ध्वस्तध्वान्तपुजः स्फुरत्करः ॥ १॥ रवि
Jan Education
For Private Personel Use Only