SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कन्यायाः स्वरूपे दूतेनोक्ते राजा हृष्टः । पुत्रं तत्रोपरि (कौबेरी) भूपसुन्दरपाणिपुत्रीं परिणेतुं प्रेषयामास । कमात्तस्य कुमारस्य गच्छतोऽन्यदा सन्ध्यायां सैन्यं स्थितम् । उत्तार्यमाणभारेषु स्वर्णा (वारणा) दिषु कुमारश्चूतवृक्षस्याधः । सिंहासनमुपविष्टः । तदाऽकस्मात् कोऽपि दूतस्तत्रागत्योवाच-भो कुमार ! पौरुषाधार तवात्र मार्गे गन्तुं न || | युज्यते।अरिदमनो भूपोऽत्रस्थस्त्वामादिशति-कथितं विना मम देशे कथमायास्त्वं ? । यद्येवमागास्तर्हि युद्धं कुरु । लाकुमारेणोक्तम्-यद्येवं तव स्वामी समादिशति तदाऽत्रागच्छतु, तस्य करकण्डमहमुत्तारयामि । वाण्या कर्कशया तस्य, भृकुटीभीषणाननः । कुमारः स्माह रे दूत!, गत्वा तं जल्प पांसुलम् ॥१॥आत्मनः स्वामिनं ब्रूहि, यदहं, || नृपनन्दनः । त्वामेव हन्तुमायातो, वैनतेय इवोरगम् ॥ २ ॥ युग्मम् । दूतः पश्चाद्गत्वा स्वखामिपुरः कुमारोक्तं । स्माह। ततोऽरिमर्दनो नृपः सन्नह्य युद्धाय कुमारेण सह समागात् । अथ तुल्यप्रतिद्वन्द्वो, युगान्तप्रतिचारकः ।। मिथो मिलितयोरासीहारुणः सेनयो रणः ॥१॥ तर्यताम्रानकध्वानवेडाबंहितहर्षितैः । तदा नादमयं| का विश्वमिदं विश्वमजायत ॥ २ ॥ घनाघनेषु वीरेषु, वर्षत्सु शरधोरणीः । विपक्षवाहिनीहंसैरुड्डीयोड्डीय निर्गतम् ॥ ३ ॥ अथ सेवकैर्वार्यमाणोऽपि कुमारो गत्वाऽग्रतोऽरिदमनं प्रति प्राह-रे सङ्ग्रामसरोभेक !, विवेक-1 भरते.५१ Jain Edutan For Private & Personal Use Only Sainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy