________________
नत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु, हंत पञ्चेषुपावकः ॥ २॥ विकलयति कलाकुशलं, हसति शुचिं पण्डित विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ॥ ३॥” एवं ध्यात्वा राजिमती जगौ-भो महासत्व ! त्वयैवं कथं जल्प्यते। रागो न क्रियते। यतः-"रागोऽयं दोषपोषाय, चेतनारहितेष्वपि । मञ्जिष्ठा कुट्टनस्थानं, भृशंका तापसहा भृशम् ॥१॥ मुखे पुरीषप्रक्षेपं, तथा पाषाणपेषणम् । एकेन्द्रियोऽपि सहते, मिति(मृत्ति)का रागदोषतः ॥२॥ अप्पउं धूलिहि मेलिउं, सयणह दीघउ छारु । पगि पगि माथा ढांकणउं, जिण जोई परनारि ॥ ३ ॥ विक्रमाकान्तविश्वोऽपि, परस्त्रीषु रिम्सया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः॥४॥” एवं जल्पने नरके पातो भवति नृणाम् । उक्तं च-"घिरत्यु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेअंते मरणं भवे ॥१॥ अहं च भोगरायस्स, तं चसि अंधगवण्हिणो।मा कुले गंधणा होमो, संजमं निहुओ चर ॥२॥जइतं काहिसि भावं, जा जा दिच्छसि नारीउ। वायाइछुव्व हडो, अद्विअप्पा भविस्ससि ॥३॥ इत्यादि राजिमतीवचांसि श्रुत्वा रथने-N मिरुत्थाय तस्याः पादयोस्तलं नत्वा प्राह-अहमभाग्यवानस्मि । यद्यपि एवंविधं मनो मया विदधे । त्वं मम गुरुस्थाने जाताऽसि । अतः परं त्वं गुरुरसि । राजिमती प्राह-त्वं धन्योऽसि । एवं रथनेमि प्रबोध्य राजिमती ।
Jain Educati
onal
For Private Personel Use Only
*
viw.jainelibrary.org