SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ .श्रीमरतेश्वरवृत्ती २ विभागे राजीमति, चरित्रम्। ॥२९९॥ धर्मोपदेशं श्रुत्वा वरदत्तादयो बहयो राजानो दीक्षा ललुः । तत्र बरदत्तादीनां साधूनां गणधरपदवी दचा ततो राजिमती समुत्थाय प्रभुं प्रणम्य दीक्षा याचते स्म । ततो नेमिनाथेन दीक्षा विश्राणिता । राजिमती नानाविधं तपः कुर्वाणा संयमं शुद्ध पालयामास । अन्येयुः श्रीसमुद्रविजयं भूपं पर्यवसाप्य श्रीनेमीनाथभ्राता स्थनेमिदीक्षां जग्राह । अन्येयू राजिमती प्रभु नन्तुं चलिता । अत्रान्तरे मेघो वर्षितुं लगः । अत्यन्तं वर्षति मेधे । तदा राजिमती आर्द्रवस्त्रा गुहायां मध्ये वस्त्राणि शोषयितुं गता। तत्र सर्वाणि वस्त्राणि शरीरादुत्तार्य निरादीकर्तुं विरलानि चक्रे । तदा तस्यां गुहायामकस्माद्रथनेमिः श्रीनेमिलघुभ्राता प्रागागात् । राजिमती निरावरणां। दृष्ट्वा रागान्धितनेत्रो स्थनेमिर्विजनस्थानं मत्वा राजिमती प्राह-भो राजिमति ! मया सह भोगान् मुंव ।। ममापि भोगेच्छां पूरय । भुक्तभोगौ पुनर्बतं पालयिष्यावः। हितकृद्विद्यसे त्वम् । तदा राजिमती दध्यौ-अहो अस्य मूढत्वं विद्यते। रागित्वात् । प्रायो जीवा रागान्धितनेत्राः कृत्याकृत्ये न जानन्ति । यतः-"दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरेत् यन्नास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्र कलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥१॥ तावत् महत्त्वं पाण्डित्यं, कुली ॥ २९९॥ Jain Education a l For Private Personel Use Only H a inelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy