________________
Jain Educato
1
सहीएवि । अहुणा अपरिणिआए पाणिग्गहणं कुणई नेमी ॥ १ ॥ अथ पशूनामार्तस्वरं श्रुत्वा नेमिः सोत्कष्टं सारथिं प्रति प्राह-भो सारथे ! कोऽयं दारुणखरः ? । अत्रोत्तरम् - खजनस्य तवोद्वाहे, गौरवं कर्तुमामिषैः । अथैते मीलिताः सन्ति, भीरवः पशवः प्रभो ! ॥ १ ॥ अजयर गड्डरय महिसा सूयर संबर हरिण रोझ रिंछा तितिर मयूर - बग सुग इत्यादि जीवाः । ततो नेमिः प्राहात्मगतम् - अहह श्रोतुमशक्यं, चरित्रमपि चित्रचित्तवृत्तीनाम् । ये कुर्वन्ति निजोत्सवमनुत्सवैरपरजन्तूनाम् ॥ १ ॥ इतो राजिमती प्राह- किंनिमित्तं मे दाहिणं चक्खू परि| फुरइ ? । सख्यः प्रोचुः - इदममङ्गलं प्रतिहतं भवतु च । इतो नेमिः प्राह-सारथे ! रथमित एवाभिवर्तय । तावता तत्रैको हरिणो नेमिं पश्यन् स्वग्रीवया हरिणीग्रीवां पिधाय सभयौत्सुक्यं ब्रूते -मा पहरसु २ एअं मह हिषयहारिणि हरिणि । सामि ! अम्ह मरणाविहु दुस्सहो पिअतमाविरहो ॥ १ ॥ हरिणी प्राह हरिणं प्रति - एसो पसनवयमो |तिहुअणसामी अकारणो बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सव्वजीवाणं ॥ १ ॥ एवं छागादीनां पशूनां करुणखरं श्रुत्वा श्रीनेमिकुमारः प्राहरिकान् प्रति प्राह - भवत्स्वामी ममोद्वाहे तावदेतान् हनिष्यति तन्नैवाहं विवाहं करिष्ये । तन् मृगान् मुञ्चत मुञ्चत । पशूनां रुधिरैः सिक्तो, यो दत्ते दुर्गतेः फलम् । विवाहं विषवृक्षेण, कार्य मे
ational
J
For Private & Personal Use Only
ww.jainelibrary.org